________________
षड्दर्शन समुचय, भाग - २, परिशिष्ट - ३ अवचूर्णि बौद्धमत
- परिशिष्ट - उ
षड्दर्शनसमुच्चयावचूर्णि:
८७५
श्रीमद्वीरजिनं नत्वा हरिभद्रगुरुं तथा । किंचिदर्थाप्यते युक्तया षड्दर्शनसमुचयम् ।। सत् शोभनं दर्शनं सामान्यावबोधलक्षणं ज्ञानं सक्तं [सम्यक्त्वं] लोचनं वा यस्य, जिनो रागादिजेतृत्वात्, वीरमिति साभिप्रायं प्रमाणवक्तव्यस्य पक्षेच्छेदादि [ परपक्षोच्छेदादेः] सुभटवृत्तित्वात् भगवतश्च दुःखसंपादिविषमोपसर्गसहिष्णुस्तन-[त्वेन] सुभटत्वात् । यदुक्तम् -
“विदारणात् कर्मततेविराजनातपः श्रिया [रूपश्रिया ] विक्रमतस्तथाद्भुतात् । भवत्प्रमोदः किल नाकिनायकश्चकार ते वीर इति स्फुटाभिधानम् [घा तम् ] ।। स्याद्विकल्पितो वादः स्याद्वादः, सदसन्नित्यानित्यादिः तं दिशति यस्तम् । सर्वाणि च तानि दर्शनानि च बौद्धादीनि तद्वाच्यः अर्थाभिधेयः अर्थाभिधेय वस्तु [अर्थोऽभिधेयरै ] वस्तु-प्रयोजननिवृत्तिस्त्वि[ष्वि]त्यनेकार्थः संक्षेपेणैव, विस्तरकरणं दुरवगाहम् ।।१।। प्रसिद्धानि दर्शनानि षडेव । एवावधारणे । यद्यपि भेदप्रभेदतया बहूनि दर्शनानि प्रसिद्धानि । यदुक्तम् -
“असियसयं किरियायं अक्किरियवाईणमाह चुलसीए । अन्नाणी सत्तट्ठी वेणइ आणञ्च बत्तीसं ।" इत्यादि । मूलभेदापेक्षया मूलभेदानाश्रित्य वैभाषिकसू (सौ) त्रान्तिकबहूद (क) कुटीचरहंस-परमहंसभा[भ]ट्टप्रभाकरादिसंभवश्चैतदन्तर्गत एव । देवता दर्शनाधिष्ठायकः । तत्त्वानि रहस्यानि मोक्षसाधकानि
।।२।। बुद्धो देवतास्येति बौद्धम् । न्यायादनपेतं नैयायिकम् । सांख्यं कापिलदर्शनम् । जैनो देवतास्त जैनम् । वैशेषिकं कणादि [द] दर्शनम् । जैमिनिऋषिमतं जैमिनीयं भाट्टं दर्शनम् । चः समुच्चये
[बौद्धमत]
।।३।। चतुर्णां दुःखसमुदयः (य) मार्गनिरोधलक्षणानाम् आर्यसत्यानां तत्त्वानां प्ररूपकः कथयिता सुगतो नाम । आदिशब्दोऽत्र अवयवार्थः, यदुक्तम् - "सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा । चतुर्व्वेषु मेधावी (धीमत) आदिशब्दं तुं लक्षयेत् (योजयेत्) ।।४।।
संसरन्तीति संसारिणो विस्तरणशीलाः । स्कन्धाः प्रचयविशेषाः । दुःखं ते पञ्च [च] पञ्च । विशिष्टं ज्ञानं विज्ञानं सर्वक्षणिक-त्वज्ञानम् । यदुक्तम् " यत्सत्तत् क्षणिकं यथा जलधरः सन्तश्च भावा इमे । " वेद्यत इति वेदना, पूर्वभवपुण्यपापपरिणामबद्धाः सुखदुःखानुभवरूपा । तथोक्तम् - "इत एकनवते कल्पे शक्तया मे पुरुषो हतः । तत्कर्मणो विपाकेन पादे विद्धोऽस्मि भ (भि) क्षवः ।। " संज्ञेति सर्वं वा चेतनाचेतनं (सचेतनाचेतनं) संज्ञामात्रं नाममात्रम्, नात्र पुत्रकलत्रभ्रातृत्वादि [तादिः ] घटपटादिर्वा पारमार्थिकाः [कः ] । पूर्वानुभूतरूपः संस्कारः, स एवायं देवदत्त इत्याद्याकारेण ज्ञानोत्पत्तिः संस्कारः सैवेयं दीपकलिकेति रूपम् इति