________________
षड्दर्शन समुश्चय, भाग - २, परिशिष्ट - २ अवचूर्णि - लोकायतमत
८७१
दर्शनानां षट्संख्या जगति प्रसिद्धा सा कथं फलवतीत्याह -
षष्ठदर्शनसंख्या तु पूर्यते तन्मते किल । - लोकायतमतक्षेपात्कथ्यते तेन तन्मतम् ।।७९।। ये नैयायिकवैशेषिकयोरेकरूपत्वेनाभेदं मन्यमाना दर्शनपञ्चकमेवाचक्षते, तन्मते षष्ठदर्शनसंख्या लोकायतमत-क्षेपात्पूर्यते । तु पुनरर्थे, किलेति परमाप्ताम्नाये, तेन कारणेन तन्मतं चार्वाकमतं कथ्यते तत्स्वरूपमुच्यत इति ।
[लोकायतमत] तदेवाह -
लोकायता वदन्त्येवं नास्ति देवो न निवृतिः ।
धर्माधर्मो न विद्यते न फलं पुण्यपापयोः ।।८।। लोकायता नास्तिका एवममुना प्रकारेण वदन्ति कथमित्याह देवः - सर्वज्ञादिर्नास्ति, निर्वृतिर्मोक्षो नास्ति, अन्यञ्च, न विद्येते, को धर्माधर्मों, धर्मश्चाधर्मश्चेति द्वन्द्वः । पुण्यपापे सर्वथा न स्त इत्यर्थः । पुण्यपापयोधर्माधर्मयोः फलं स्वर्गनरकादिरूपं नेति नास्ति, तदपि पुण्यपापयोरभावे कौतस्त्यं तत्फलमित्यादि । तच्छात्रोक्तमेव सोल्लुण्ठं दर्शयन्नाह - तथा च तन्मतम् ।
एतावानेव लोकोऽयं यावानिन्द्रियगोचरः ।
भद्रे वृकपदं पश्य यद्वदन्ति बहुश्रुताः ।।८१।। तथा चेत्युपदर्शने । तन्मतं प्रस्तावान्नास्तिकमतम् । कथमित्याह -
अयं लोकः संसार एतावानेव एतावन्मात्र एव यावान् यावन्मात्रमिन्द्रियगोचरः । इन्द्रियं स्पर्शनरसनघ्राणचक्षुःश्रोत्रभेदात् पञ्चविधं तस्य गोचरो विषयः । पञ्चेन्द्रियव्यक्तीकृतमेव वस्त्वस्ति नापरं किंचन । अत्र लोकग्रहणाल्लोकस्थपदार्थसार्थस्य संग्रहः । तथा परे पुण्यपापसाध्यं स्वर्गनरकाद्याहुः, तदप्रमाणं प्रत्यक्षाभावादेव । अप्रत्यक्षमप्यस्तीति चेच्छशश्रृङ्गवन्ध्यास्त-नन्धयादीनामपि भावोऽस्तु । तथा हि . स्पर्शनेन्द्रियेण तावन्मृदुकठोरशीतोष्णस्निग्धरूक्षादिभावा उपलभ्यन्ते । रसनेन्द्रियेण तिक्तकटुकषायाम्ल मधुरास्वादलेह्यचूष्यपेयादयो वेद्यन्ते । घ्राणेन्द्रियेण मृगमदमलयजघनसारागरुप्रभृतिसुरभिवस्तुपरम लोद्गारपरम्पराः परिचीयन्ते । चक्षुरिन्द्रियेण भूभूधरपुरप्राकारघटपटस्तम्भकुम्भाम्भोरुहादिमनुष्यपशुश्वापदादिस्थावरजङ्गम-पदार्थसार्था अनुभूयन्ते । श्रोत्रेन्द्रियेण तु प्रथिष्ठगाथकपथपथिकप्रथ्यमानतालमानमूर्च्छनाप्रेडोलनाखेलन्मधुरध्वनय आकर्ण्यन्ते। इति पञ्चप्रकारप्रत्यक्षदृष्टमेव वस्तुतत्त्वं प्रमाणपदवीमवगाहते । शेषप्रमाणानामनुभवाभावादेव निरस्तत्वाद् गगनकुसुमवत् । ये चास्पृष्टमनास्वादितमनाघ्रातमदृष्टमश्रुतमप्याद्रियमाणाः स्वर्गमोक्षादिसुखपिपासानुबन्धचेतोवृत्तयो दुश्चर