________________
८६४
षड्दर्शन समुद्यय, भाग-२, परिशिष्ट - २ लघुवृत्ति - वैशेषकमत
"सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तिसंपदः । तथैव ताः पूर्वमहार्णवोत्थिता जगत्प्रमाणं जिनवाक्यविपुषः ॥" [ ] इति परमार्थः ।
[वैशेषिकमत अथ वैशेषिकमतस्य देवतादिसाम्येन नैयायिकेभ्यो ये विशेषं न मन्यन्ते तान् बोधयन्नाह -
देवताविषये भेदो नास्ति नैयायिकः समम् ।
वैशेषिकाणां तत्त्वेषु विद्यतेऽसौ निर्दिश्यते ।।५९॥ शिवदेवतासाम्येऽपि, तत्त्वादिविशेषविशिष्टत्वाद् वैशेषिकास्तेषां वैशेषिकाणां काणादानां नैयायिकैराक्षपादैः समं सार्द्ध देवताविषये शिवदेवताभ्युपगमे भेदो विशेषो नास्ति, तत्त्वेषु शासनरहस्येषु भेदो विद्यते । तुशब्दोऽध्याहार्यः । असौ विशेषो नैयायिकेभ्यः पृथग्भावो निर्दिश्यते प्रकाश्यत इत्यर्थः । तान्येव तत्त्वान्याह -
द्रव्यं गुणस्तथा कर्म सामान्यं च चतुर्थकम् ।
विशेषसमवायौ च तत्त्वषट्कं हि तन्मते ।।६।। तन्मते वैशेषिकमते हि निश्चयेन तत्त्वषट्कं ज्ञेयमिति संबन्धः । कथमित्याह - द्रव्यं गुण इत्यादि । आदिमतत्त्वं द्रव्यं नाम, भेदबाहुल्येऽपि सामान्यादेकम् । द्वितीयतत्त्वं गुणो नाम तथेति भेदान्तरसूचने । तृतीयं तत्त्वं कर्मसंज्ञम् । चतुर्थकं च तत्त्वं सामान्यम् । चतुर्थमेव चतुर्थकं स्वार्थे कः प्रत्ययः । चः समुचये । अन्यञ्च विशेषसमवायौ । विशेषश्च समवायश्चेति द्वन्द्वः । इति तद्दर्शने तत्त्वानि षड् ज्ञेयानि ।। भेदानाह -
तत्र द्रव्यं नवधा भूजलतेजोऽनिलान्तरिक्षाणि । कालदिगात्ममनांसि च, गुणा: पुनश्चतुर्विंशतिधा ।।१।। स्पर्शरस रूपगन्धाः शब्दः संख्या विभागसंयोगो । परिमाणं च पृथक्त्वं तथा परत्वापरत्वे च ।।१२।। बुद्धिः सुखदुःखेच्छा धर्माधर्मा प्रयत्नसंस्कारी ।
द्वेषः स्नेहगुरत्वे द्रवत्ववेगौ गुणा एते ।।३।। नवद्रव्याणि चतुर्विशतिगुणाश्च, निगदसिद्धान्येव । संस्कारस्य वेगभावनास्थितिस्थापकभेदात् त्रिविधत्त्वेऽपि संस्कारत्व-जात्यपेक्षयैकत्वम् । शौर्योदार्यादीनां च गुणानामेष्वेव चतुर्विंशतिगुणेष्वन्तर्भावानाधिक्यम् । कर्मसामान्यभेदानाह -
उत्क्षेपावक्षेपावाकुञ्चनकं प्रसारणं गमनम् । पञ्चविधं कर्मतत् परापरे द्वे तु सामान्ये ।।६४।।