________________
४५०
षड्दर्शन समुद्यय, भाग - २, परिशिष्ट - २ लघुवृत्ति - सांख्यमत
प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि ।।" विन्ध्यवासी त्वेवं भोगमाचष्टे -
"पुरुषोऽविकृतात्मैव स्वनि समचेतनम् ।
मनः करोति सांनिध्यादुपाधेः स्फटिकं यथा ।।" [ ] इति ।। नित्यचिज्ज्ञानयुक्तः ।
बन्धमोक्षसंसाराश्च नित्येऽप्यात्मनि भृत्यगतयोर्जयपराजययोरिव तत्फलकोशलाभादिसंबन्धेन स्वामिन्युपचारवदत्राप्युप-चर्यन्त इत्यदोषः । तत्त्वोपसंहारमाह - __ पञ्चविंशतितत्त्वानि सांख्यस्यैव भवन्ति च ।
प्रधाननरयोश्चात्र वृत्तिः पङ्ग्वन्धयोरिव ।।४२।। पूर्वार्धं निगदसिद्धम् । अत्र सांख्यमते प्रधाननरयोः प्रकृतिपुरुषयोवृत्तिर्वर्तनं पङ्ग्वन्धयोरिव पगुश्चरणविकल:, अन्धश्च नेत्रविकलः । यथा पङ्ग्वन्धौ संयुक्तावेव कार्यसाधनाय प्रभवतो न पृथग्भूतौ । प्रकृतिपुरुषयोरपि तथैव कार्यकर्तृत्वम् । प्रकृत्युपात्तं पुरुषो भुत इत्यर्थः । मोक्षं प्रमाणं चाह -
प्रकृतिवियोगो मोक्षः पुरुषस्यैवान्तरज्ञानात् ।
मानत्रितयं च भवेत् प्रत्यक्षं लैङ्गिकं शाब्दम् ।।४३॥ ___ मोक्षः किमुच्यत इत्याह । पुरुषस्यात्मन आन्तरज्ञानात् त्रिविधबन्धविच्छेदात्प्रकृतिवियोगो यः स मोक्षः प्रकृत्या सह वियोगे विरहे सति पुरुषस्यापवर्ग इति । आन्तरज्ञानं च बन्धविच्छेदाद्भवति । बन्धश्च प्राकृतिकवैकृतिकदाक्षिणभेदात् त्रिविधः । तद्यथा, प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः । ये विकारानेव भूतेन्द्रियाहंकारबुद्धीः पुरुषबुद्ध्योपासते तेषां वैकारिकः । इष्टापूर्ते दाक्षिणः, इष्टापूर्त जनभोजनदानादिकं तस्मिन्, पुरुषतत्त्वानभिज्ञो हीष्टापूर्तकारी कामोपहतमना बध्यत इति ।
"इष्टापूर्त मन्यमाना वरिष्ठं नान्यत् श्रेयो येऽभिनन्दन्ति मूढाः ।
नाकस्य पृष्ठे ते सुकृतेन भूत्वा इमं लोकं हीनतरं वा विशन्ति ॥"[ ] इति वचनात् । इति त्रिविधबन्धविच्छेदात्परमब्रह्मज्ञानानुभवस्ततः प्रकृतिवियोगः पुरुषस्य, प्रकृतिपुरुषविवेकदर्शनाञ्च निवृत्तायां प्रकृतौ, पुरुषस्य स्वरूपावस्थानं मोक्ष इति श्लोकपूर्वार्धार्थः । मानत्रितयं च प्रमाणत्रयं च, भवेत् स्यात्, प्रत्यक्षं लैङ्गिक शब्दं च, चकारः सर्वत्र संबध्यते । प्रत्यक्षमिन्द्रियोपलभ्यम्, लैङ्गिकमनुमानगम्यम्, शाब्दं चागमस्वरूपमिति प्रमाणत्रयम् । अथोपसंहरनाह .
एवं सांख्यमतस्यापि समास: कथितोऽधुना । जैनदर्शनसंक्षेपः कथ्यते सुविचारवान् ।।४४।।