________________
८४०
षड्दर्शन समुझय, भाग - २, परिशिष्ट - २ लघुवृत्ति - सांख्यमत
सरीसृपस्थावरनिमित्तम्, आधिदैविकं यक्षराक्षसग्रहाद्यावेशहेतुकमिति । अनेन दुःखत्रयेणाभिहतस्य प्राणिनस्तत्त्वजिज्ञासोत्पद्यते अतस्तान्येव तत्त्वान्याह -
ततः संजायते बुद्धिर्महानिति यकोच्यते ।
अहंकारस्ततोऽपि स्यात्तस्मात्षोडशको गणः ।।३७।। ततो गुणत्रयाभिघाताद् बुद्धिः संजायते यका बुद्धिर्महानिति उच्यते महच्छब्देन कीर्त्यत इत्यर्थः । एवमेतन्नान्यथा, गौरयं नाश्वः, स्थाणुरेष नायं पुरुष इत्येवं निश्चयस्तेन पदार्थप्रतिपत्तिहेतुर्योऽध्यवसायः सा बुद्धिरिति । तस्यास्त्वष्टौ रूपाणि तदर्शनविश्रुतानि । यदाह • धर्मज्ञानवैराग्यैश्वर्यरूपाणि चत्वारि सात्त्विकानि, अधर्मादीनि तु तत्प्रतिपक्षभूतानि चत्वारि तामसानीत्यष्टौ । ततो बुद्धेरहंकारः स चाभिमानात्मको यथा 'अहं शब्दे, अहं रूपे, अहं रसे, अहं स्पर्श, अहं गन्धे, अहं स्वामी, अहम् ईश्वरः, असौ मया हतः, अहं त्वां हनिष्यामीत्यादिप्रत्ययरूपः तस्मादहंकारात्षोडशको गणो 'जायते' इत्यध्याहारः अस्ति भवतीत्यादिवत् । पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि एकादशं मनः पञ्च भूतानि षोडशको गणः । तथाह ईश्वरकृष्णः -
"मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।।
षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ।।" इति । षोडशकगणमेवाह -
स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं च पञ्चमम् ।। पञ्च बुद्धीन्द्रियाण्याहुस्तथा कर्मेन्द्रियाणि च ।।३८।। पायूपस्थवचःपाणिपादाख्यानि मनस्तथा।
अन्यानि पञ्चरूपाणि तन्मात्राणीति षोडश ।।३९।। युग्मम् । पञ्च बुद्धीन्द्रियाणीति संबन्धः । स्पर्शनं त्वगिन्द्रियम्, रसनं जिह्वा, घ्राणं नासिका, चक्षुर्नेत्रं, पञ्चमं च श्रोत्रं कर्ण इति, एतानि पञ्चबुद्धिप्रधानानि बुद्धिसहचराण्येव ज्ञानं जनयन्तीति कृत्वा बुद्धीन्द्रियाण्याहुः कथयन्ति तन्मतीया इति । तथा कर्मेन्द्रियाणि चेति । तथा पूर्वोद्दिष्टपञ्चसंख्यामात्रमपि परामृशति । तान्येवाह - पायूपस्थवच:पाणिपादाख्यानीति । पायुरपानम्, उपस्थः प्रजननम्, वचो वाक्यम्, पाणिर्हस्तः, पादश्चरणस्तदाख्यानि पञ्च कर्मेन्द्रियाणि, कर्म कार्यव्यापारस्तस्य साधनानीन्द्रियाणीति कर्मेन्द्रियाणि । तथा मन एकादशमिन्द्रियमित्यर्थः । अन्यानि पञ्चरूपाणि तन्मात्राणि चेति । रूपरसगन्धशब्दस्पर्शाख्यानि तन्मात्राणीति षोडश ज्ञेयाः ।
पञ्चतन्मात्रेभ्यः पञ्चभूतोत्पत्तिमाह -
१. अत्र क्रमेण प्रतीतिपञ्चकाकारस्थाने, अहं श्रृणोमि, अहं रूपयामि, अहं रसयामि, अहं स्पृशामि, अहं जिघ्रामि, इत्येवाकारपञ्चकं
ज्याय इति भाति, मूलै निर्दिष्टाकारकप्रतीतीनामनानुभविकत्वाद् । ग्रन्थकारलेखानुपूर्वीभङ्गभिया तु मूलस्थपाठो न परावति ।