________________
८३२
षड्दर्शन समुझय, भाग - २, परिशिष्ट - २ लघुवृत्ति - बौद्धमत
भिक्षुर्भिक्षामटंश्चरणे कण्टके लग्ने प्राह -
"इत एकनवतेः कल्पे शक्तया में पुरुषो हतः ।
तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ॥"[ . ] इत्यादि । संज्ञेति-संज्ञानामकोऽर्थः । सर्वमिदं सांसारिक सचेतनाचेतनस्वरूपव्यवहरणं संज्ञामात्रं नाममात्रम् । नात्र कलत्रपुत्रमित्र-भ्रात्रादिसंबन्धो घटपटादिपदार्थसार्थो वा पारमार्थिकः । तथा च तत्सूत्रम् । “तानीमानि भिक्षवः संज्ञामात्रं व्यवहारमात्रं कल्पनामात्रं संवृति-मात्रमतीतोऽध्वानागतोऽध्वा सहेतुको विनाश आकाशं पुद्गलाः" [ ] इति । संस्कार इति-इह परभवविषयः संतानपदार्थनिरीक्षणप्रबुद्धपूर्वानुभूतसंस्कारस्य प्रमातुः स एवायं देवदत्तः, सैवेयं दीपकलिके साद्याकारेण ज्ञानोत्पत्तिः संस्कारः । यदाह -
"यस्मिन्नेव हि संतान आहिता कर्मवासना।।
फलं तत्रैव संधत्ते कार्पासे रक्तता यथा ।।"[ ] इति । रूपमिति-रगरगायमाणपरमाणुप्रचयः । बौद्धमते हि स्थूलरूपस्य जगति विवर्तमानपदार्थजातस्य तदर्शनोपपत्तिभिर्निरा-क्रियमाणत्वात् परमाणव एव तात्त्विकाः । च पुनरर्थः । एवेति पूरणार्थः ।।५।। दुःखनामधेयमार्यसत्यं पञ्चभेदतया निरूप्य अथ समुदयतत्त्वस्य स्वरूपमाह -
समुदेति यतो लोके रागादीनां गणोऽखिलः ।
आत्मात्मीयस्वभावाख्यःसमुदयः स संमतः ॥६॥ यतो यस्माल्लोके रागादीनां रागद्वेषमोहानामखिल: समस्तो गण: समुदेत्युद्भवति । कीदृगित्याह । आत्मात्मीयस्व-भावाख्यः । अयमात्मा, अयं चात्मीयः, पदे पदसमुदायोपचारादयं पर: अयं च परकीय इत्यादिभावो रागद्वेषनिबन्धनं तदाख्यस्तन्मूलो रागादीनां गणः । आत्मात्मीयरूपेण रागरूपः, परपरकीयपरिणामेन च द्वेषरूपो यतः समुदेति स समुदयः समुदयो नाम तत्त्वं संमतो बौद्धदर्शनेऽभिमत इति ।।६।। अथ तृतीयचतुर्थतत्त्वे प्रपञ्चयन्नाह -
क्षणिकाः सर्वसंस्कारा इत्येवं वासना तु या।
स मार्ग इति विज्ञेयो निरोधो मोक्ष उच्यते ।।७।। सर्वसंस्काराः क्षणिकाः । सर्वेषां विश्वत्रयविवरविवर्तमानानां घटपटस्तम्भाम्भोरुहादीनां द्वितीयादिक्षणेषु स एवायं स एवायमित्याद्युल्लेखेन ये संस्कारा ज्ञानसंताना उत्पद्यन्ते ते विचारगोचरगताः क्षणिकाः । यत्प्रमाणयन्ति, सर्वं सत् क्षणिकम्, अक्षणिके क्रमयोगपद्याभ्यामर्थक्रियाविरोधादिति वादस्थलमभ्यूह्यं क्षणिकत्वाविशेषकम् । विशेषोपपत्तिश्च समग्रं तावदौत्पत्तिकं पदार्थकदम्बकं घटपटादिकं मुद्गरादिसामग्रीसाकल्ये विनश्वरमाकलय्यते । तत्र योऽस्य प्रान्त्यावस्थायां विनाशस्वभावः स पदार्थोत्पत्तिसमये विद्यते, न वा । अथ विद्यते चेत् आपतितं तदुत्पत्तिसमयानन्तरमेव विनश्वरत्वम् ।