________________
षड्दर्शन समुचय भाग - २, श्लोक -७५, मीमांसकदर्शन
७८७
संभवेन तुः-पुनः कस्याप्यन्यस्य-अदृष्टस्यार्थस्य कल्पना यद्बलेन-यस्य ज्ञानस्य बलेन सामर्थ्येन क्रियते । “दृष्टाद्यनुपपत्त्या” इति पाठे तु दृष्टः प्रमाणपञ्चकेन, आदिशब्दात् श्रुतः शाब्दप्रमाणेन तस्य दृष्टस्य श्रुतस्य चार्थस्यानुपपत्त्या कस्याप्यर्थस्य कल्पना यद्बलेन क्रियत इति प्राग्वत् । असावदृष्टार्थकल्पनारूपं ज्ञानमेवार्थापत्तिरुदाहता । अत्रेदं सूत्रं “अर्थापत्तिरपि दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यदृष्टार्थकल्पना" (शा.भा-१/१/५) इति । अत्र प्रमाणपञ्चकेन दृष्टः शब्देन श्रुतश्चार्थो मिथो(लक्षण्यज्ञापनार्थं पृथकृत्योक्ती स्तः । शेषं तुल्यम् । इदमुक्तं भवति-प्रत्यक्षादिप्रमाणषट्कविज्ञातोऽर्थो येन विना नोपपद्यते तस्यार्थस्य कल्पनमापत्तिः । तत्र प्रत्यक्षपूर्विकार्थापत्तिः यथाग्नेः प्रत्यक्षेणोष्णस्पर्शमुपलभ्य दाहकशक्तियोगोऽर्थापत्त्या प्रकल्प्यते । न हि शक्तिरध्यक्षपरिच्छेद्या नाप्यनुमानादिसमधिगम्या प्रत्यक्षया शक्तया सह कस्यचिदर्थस्य संबन्धासिद्धेः । अनुमानपूर्विकार्थापत्तिः यथादित्यस्य देशान्तरप्राप्त्या देवदत्तस्येव गत्यनुमाने ततोऽनुमानाद्गमनशक्तियोगोऽर्थापत्त्यावसीयते । उपमानपूर्वकार्थापत्तिः यथा “गवयवद्गौः” इत्युक्तेराद्वाहदोहादिशक्तियोगस्तस्य प्रतीयते, अन्यथा गोत्वस्यैवायोगात् । शब्दपूर्विकार्थापत्तिः श्रुतार्थापत्तिरितीतरनामिका यथा शब्दादर्थप्रतीतौ शब्दस्यार्थेन संबन्धसिद्धिः । अर्थापत्तिपूर्विकार्थापत्तिः । यथोक्तप्रकारेण शब्दस्यार्थेन संबन्धसिद्धावन्नित्यत्वसिद्धिः पौरुषेयत्वे शब्दस्य संबन्धायोगात् । अभावपूर्विकार्थापत्तिः यथा जीवतो देवदत्तस्य गृहेऽदर्शनादर्थाबहिर्भावः । अत्र च चतसृभिरर्थापत्तिभिः शक्तिः साध्यते, पञ्चम्या नित्यता. षष्ठ्या गृहादहिभूतो देवदत्त एव साध्यत इत्येवं षट्प्रकारार्थापत्तिः । अन्ये तु श्रुतार्थापत्तिमन्यथोदाहरन्ति, पीनो देवदत्तो दिवा न भुङ्क्त इति वाक्यश्रवणाद्रात्रिभोजनवाक्यप्रतीतिः, श्रुतार्थापत्तिः । गवयोपमितस्य गोस्तज्ज्ञानग्राह्यताशक्तिरुपमानपूर्विकार्थापत्तिरिति । इयं च षट्प्रकाराप्यर्थापत्तिर्नाध्यक्ष अतीन्द्रियशक्त्याद्यर्थविषयत्वात् । अत एव नानुमानमपि, प्रत्यक्षपूर्वकत्वात्तस्य, ततः प्रमाणान्तरमेवार्थापत्तिः सिद्धा ।।७५।। ટીકાનો ભાવાનુવાદ: પ્રત્યક્ષાદિ છ પ્રમાણો દ્વારા સિદ્ધ થયેલો અર્થ અન્ય રીતે સંભવતો ન હોવાથી, (તેની સંગતિ भाटे) पुन: ५। मदृष्टार्थनी अत्यना, ४ शानन =सामथ्र्यथा ४२।५ छे, ते 'मापत्ति'
वाय छे.