________________
७८२
षड्दर्शन समुञ्चय भाग - २, श्लोक - ७३, मीमांसकदर्शन
व्याख्या-प्रत्यक्षानुमानशाब्दोपमानार्थापत्त्यभावलक्षणानि षट्. प्रमाणानि जैमिनिमुनेः संमतानीत्यध्याहारः । चकाराः समुच्चयार्थाः । तत्राद्यानि पञ्चैव प्रमाणानीति प्रभाकरोऽभावस्य प्रत्यक्षेणैव ग्राह्यतां मन्यमानोऽभिमन्यते । षडपि तानीति भट्टो भाषते ।। ७२ ।।
ટીકાનો ભાવાનુવાદ : જૈમિનિમુનિને પ્રત્યક્ષ, અનુમાન, શબ્દ, ઉપમાન, અર્થપત્તિ અને અભાવ આ છ પ્રમાણો માન્ય છે. શ્લોકમાં ‘વ’ કાર સમુચ્ચયાર્થક છે. પ્રભાકર અભાવને પ્રત્યક્ષથી ગ્રાહ્ય માનીને, અર્થાપતિ સુધીના પાંચ પ્રમાણો સ્વીકારે છે. ભટ્ટ પ્રત્યક્ષાદિ છએ પણ प्रमाने माने छे. ॥७२॥
अथ प्रत्यक्षस्य लक्षणमाचष्टेહવે પ્રત્યક્ષનું લક્ષણ કહે છે.
तत्र प्रत्यक्षमक्षाणां संप्रयोगे सतां सति ।
आत्मनो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः ।।७३ ।। શ્લોકાર્થ વિદ્યમાનવસ્તુની સાથે ઇન્દ્રિયોનો સન્નિકર્ષ થતે છતે આત્માને જે બુદ્ધિ=જ્ઞાન ઉત્પન્ન થાય છે, તે પ્રત્યક્ષ કહેવાય છે. લિંગથી ઉત્પન્ન થવાવાળા જ્ઞાનને અનુમાન કહેવાય છે.
व्याख्या-“तत्र” इति निर्धारणार्थः । इयमत्राक्षरघटना-सतां संप्रयोगे सति आत्मनोऽक्षाणां बुद्धिजन्मप्रत्यक्षमिति । श्लोके तु बन्धानुलोम्येन व्यस्तनिर्देशः । सतांविद्यमानानां वस्तूनां संबन्धिनि सम्प्रयोगे-सबन्धे सति आत्मनो-जीवस्येन्द्रियाणां यो बुद्ध्युत्पादः तत्प्रत्यक्षमिति । सतामित्यत्र सत इत्येकवचनेनैव प्रस्तुतार्थसिद्धौ षष्ठीबहुवचनाभिधानम् बहूनामप्यर्थानां संबन्ध इन्द्रियस्य संयोगः क्वचन भवतीति ज्ञापनार्थम् । अत्र जैमिनीयं सूत्रमिदं “सत्संप्रयोगे सति पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षं" [मीमां० सू०-१।१।४] इति । व्याख्या-सता-विद्यमानेन वस्तुनेन्द्रियाणां संप्रयोगे-संबन्धे सति पुरुषस्य यो ज्ञानोत्पादः, तत्प्रत्यक्षम् । अयमत्र भावः-यद्विषयं विज्ञानं तेनैवार्थेन संप्रयोगे इन्द्रियाणां प्रत्यक्षं, प्रत्यक्षाभासं त्वन्यसंप्रयोगजं यथा मरुमरीचिकादिसंप्रयोगजं जलादिज्ञानमिति । अथवा सत्संप्रयोगजत्वं विद्यमानोपलम्भनत्वमुच्यते । तत्र सति-विद्यमाने सम्यक्प्रयोगो-अर्थेष्विन्द्रियाणां व्यापारो योग्यता वा, न तु नैयायिकाभ्युपगत एवं संयोगादिः । तस्मिन्सति शेषं प्राग्वत् । इतिशब्दः