________________
षड्दर्शन समुच्चय भाग - २, श्लोक - ६१, वैशेषिक दर्शन
નથી. અર્થાત્ પાંચ કે સાત નથી. વૈશેષિકમતમાં છ પદાર્થો પૈકી દ્રવ્યો અને ગુણોમાં કેટલાક નિત્ય છે અને કેટલાક અનિત્ય છે. કર્મ અનિત્ય છે. પરંતુ સામાન્ય, વિશેષ અને સમાવાય નિત્ય જ છે. કોઈક આચાર્ય સાતમા પદાર્થ અભાવને પણ માને છે ફગા
७२८
अथ द्रव्यभेदानाह
હવે દ્રવ્યના ભેદોને કહે છે.
तत्र द्रव्यं नवधा भूजलतेजोनिलान्तरिक्षाणि ।
कालदिगात्ममनांसि च गुणः पुनः पञ्चविंशतिधा ।। ६१ ।।
श्लोकार्थ : ते छ पछार्थोभां द्रव्य नव प्रहारना छे. (१) पृथ्वी, (२) पाएशी, (3) अग्नि, (४) वायु, (4) खाश (5) अल, (७) हिशा, (८) आत्मा, (८) भन तथा गुएापहार्थना २५ प्रहार छे. ॥५१॥
"
व्याख्या- तत्र तेषु षट्सु पदार्थेषु द्रव्यं नवधा, व्यवच्छेदफलं वाक्यमिति न्यायान्नवधैव न तु न्यूनाधिकप्रकारम् । अत्र द्रव्यमिति जात्यपेक्षमेकवचनम्, एवं प्रागग्रे च ज्ञेयम्, ततो नवैव द्रव्याणीत्यर्थः । एतेन छायातमसी आलोकाभावरूपत्वान्न द्रव्ये भवत इत्युक्तम् । भूः पृथिवी, काठिन्यलक्षणा मृत्पाषाणवनस्पतिरूपा । जलमापः तच सरित्समुद्रकरकादिगतम् । तेजोऽग्निः तच चतुर्धा, भीमं काष्ठेन्धनप्रभवं दिव्यं सूर्यविद्युदादिजं, आहारपरिणामहेतुरौदर्यं आकरजं च सुवर्णादि । अनिलो वायुः । एतानि चत्वार्यनेकविधानि । अन्तरिक्षमाकाशं, तचैकं नित्यममूर्तं विभु च द्रव्यम् । विभुशब्देन विश्वव्यापकम् । इदं च शब्देन लिङ्गेनावगम्यते, आकाशगुणत्वाच्छब्दस्य । द्वन्द्वे भूजलतेजोऽनिलान्तरिक्षाणि । कालः परापरव्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रप्रत्ययलिङ्गो द्रव्यम्, तथाहि - परः पिताऽपरः पुत्रो युगपदयुगपद्वा चिरं क्षिप्रं कृतं करिष्यते वेति यत्परापरादिज्ञानं तदादित्यादिक्रियाद्रव्यव्यतिरिक्तपदार्थबन्धनं, तत्प्रत्ययविलक्षणत्वात्, घटादिप्रत्ययवत् । योऽस्य हेतुः स पारिशेष्यात्कालः स चैको नित्योऽमूर्तो विभुर्द्रव्यं च । दिगपि द्रव्यमेका नित्याऽमूर्ता विभुश्च (विभ्वीच ) । मूर्तेष्वेव हि द्रव्येषु मूर्तं द्रव्यमवधिंकृत्वेदमस्मात्पूर्वेण दक्षिणेन पश्चिमेनोत्तरेण पूर्वदक्षिणेन दक्षिणापरेणापरोत्तरेणोत्तरपूर्वेणाधस्तादुपरिष्टादित्यमी दशप्रत्यया यतो भवन्ति सा दिगिति । एतस्याश्चैकत्वेऽपि प्राच्यादिभेदेन नानात्वं कार्यविशेषाद्व्यवस्थितम् । आत्मा जीवोऽनेको नित्योऽमूर्तो विभुर्द्रव्यं च ।
"
"