________________
षड्दर्शन समुश्चय भाग - २, श्लोक - ५८, जैनदर्शन
७१३
कथं न व्याहतं वचो भवेत् १ । ज्ञान स्वात्मानं न वेत्ति स्वात्मनि क्रियाविरोधादित्यभिधायेधरज्ञानं स्वात्मनि क्रियाविरोधाभावेन स्वसंवेदितमिच्छतां कथं न स्ववचनविरोधः २ । प्रदीपोऽप्यात्मानमात्मनैव प्रकाशयन् स्वात्मनि क्रियाविरोधं व्यपाकरोति ३ । परवञ्चनात्मकान्यपि छलजातिनिग्रहस्थानानि तत्त्वरूपतयोपदिशतोऽक्षपादर्षेर्वैराग्यव्यावर्णनं तमसः प्रकाशात्मकताप्रख्यापनमिव कथं न व्याहन्यते ४ । आकाशस्य निरवयवत्वं स्वीकृत्य तद्गुणः शब्दस्तदेकदेश एव श्रूयते न सर्वत्रेति सावयवतां ब्रुवाणस्य कथं न विरोधः ५ सत्तायोगः सत्त्वं योगश्च सर्वैर्वस्तुभिः सांशतायामेव भवति सामान्यं च निरंशमेकमभ्युपगम्यते, ततः कथं न पूर्वापरतो व्याहतिः ६ । समवायो नित्य एकस्वभावश्चेष्यते सर्वैः समवायिभिः संबन्धश्च नैयत्येन जायमानोऽनेकस्वभावतायामेव भवति, तथा च पूर्वोपरविरोधः सुबोधः ७ । अर्थवत्प्रमाणमित्यत्रार्थः सहकारी यस्य तदर्थवत्प्रमाणमित्यभिधाय योगिप्रत्यक्षमतीताद्यर्थविषयमभिदधानस्य पूर्वापरविरोधः स्यात्, अतीतादेः सहकारित्वायोगात् ९ । तथा स्मृतिर्गृहीतग्राहित्वेन न प्रमाणमिष्यते अनर्थजन्यत्वेन वा ? गृहीतग्राहित्वेन स्मतेरप्रामाण्ये धारावाहिज्ञानानामपि गृहीतग्राहित्वेनाप्रामाण्यप्रसङ्गः । न च धारावाहिज्ञानानामप्रामाण्यं नैयायिकवैशेषिकैः स्वीक्रियते, अनर्थजन्यत्वेन तु स्मृतेरप्रामाण्येऽतीतानागतादिविषयस्यानुमानस्याप्यनर्थजन्यत्वेनाप्रामाण्यं भवेत्, त्रिकालविषयं ते चानुमानं शब्दवदिष्यते, धूमेन हि वर्तमानोऽग्निरनुमीयते मेघोन्नत्या भविष्यन्ती वृष्टिर्नदीपूरेण च सैव भूतेति, तदेवं धारावाहिज्ञानैरनुमानेन च स्मृतेः सादृश्ये सत्यपि यत्स्मृतेरप्रामाण्यं धारावाहिज्ञानादीनां च प्रामाण्यमिष्यते स पूर्वापरविरोधः ९ । ટીકાનો ભાવાનુવાદઃ હવે તૈયાયિક અને વૈશેષિક મતમાં પૂર્વાપરવિરોધ બતાવાય છે. નૈયાયિકો “સેતુ” પદાર્થનું લક્ષણ કરતાં કહે છે કે... “જેમાં સત્તાનો યોગ સંબંધ=સમવાય હોય તે સત્ છે.” તૈયાયિકો “સતું' પદાર્થનું આ પ્રમાણે લક્ષણ કહીને સામાન્ય, વિશેષ અને સમવાયનો સત્તાના સંબંધ વિના પણ સદ્ભાવ કહે છે. આવું પરસ્પરવિરુદ્ધ બોલતા નૈયાયિકનું વચન કેમ વ્યાઘાતને ન પામે ? (એક બાજુ “સત્'નું લક્ષણ કંઈક જુદું કરે છે અને બીજી બાજુ