________________
६२२
षड्दर्शन समुझय भाग - २, श्लोक - ५६, जैनदर्शन
अथ सूत्रकार एव प्रत्यक्षपरोक्षयोर्लक्षणं लक्षयतिહવે સૂત્રકારશ્રી જ સ્વયં પ્રત્યક્ષ અને પરોક્ષનું લક્ષણ કહે છે.
अपरोक्षतयार्थस्य, ग्राहकं ज्ञानमीदृशम् ।
प्रत्यक्षमितरज्ज्ञेयं, परोक्षं ग्रहणेक्षया ।।५६।। શ્લોકાર્ધ પદાર્થને અપરોક્ષતયા = સ્પષ્ટરૂપથી ગ્રહણ કરવાવાળું જ્ઞાન પ્રત્યક્ષ કહેવાય છે. પ્રત્યક્ષથી ભિન્નજ્ઞાન પરોક્ષ છે. જ્ઞાનમાં આવેલી પરોક્ષતા બાહ્યપદાર્થોને ગ્રહણ કરવાની અપેક્ષાએ જ છે. (કારણ કે સ્વરૂપત: સર્વજ્ઞાનો પ્રત્યક્ષ જ હોય છે.) (અર્થાત્ જે જ્ઞાન અપરોક્ષતયા = સાક્ષાત્ માત્ર આત્માની પ્રવૃત્તિથી વિષયનું ગ્રાહક બને તે પ્રત્યક્ષજ્ઞાન અને ઇન્દ્રિયાદિની સહાયતા પૂર્વક થતું જ્ઞાન પરોક્ષ છે તથા ગ્રહણ કરનાર સાધનો જ્ઞાનને પરોક્ષ” શબ્દના વ્યવહારયોગ્ય બનાવે છે.) પકો
व्याख्या-तत्र प्रत्यक्षमिति लक्ष्यनिर्देशः । अपरोक्षतयार्थस्य ग्राहकं ज्ञानमिति लक्षणनिर्देशः । परोक्षोऽक्षगोचरातीतः, ततोऽन्योऽपरोक्षस्तद्भावस्तत्ता तयाऽपरोक्षतया-साक्षात्कारितया न पुनरस्पष्टसन्दिग्धादितया, अर्थस्य-आन्तरस्यात्मस्वरूपस्य, बाह्यस्य च घटकटपटशकटलकुटादेर्वस्तुनो ग्राहकं व्यवसायात्मकतया साक्षात्परिच्छेदकं, ज्ञानम् ईदृशम् विशेषणस्य व्यवच्छेदकत्वादीदृशमेव प्रत्यक्षं नत्वन्यादृशम् । अपरोक्षतयेत्यनेन परोक्षलक्षणसङ्कीर्णतामध्यक्षस्य परिहरति । एतेन परपरिकल्पितानां कल्पनापोढत्वादीनां प्रत्यक्षलक्षणानां निरासः कृतो द्रष्टव्यः । ज्ञानवादिनोऽवादिषुः । अहो आर्हताः ! अर्थस्यात्मस्वरूपस्य यद्ग्राहकं तत्प्रत्यक्षमित्येव अत्र व्याख्यायताम्, अर्थशब्देन बाह्योऽप्यर्थः कुतो व्याख्यातो बाह्यार्थस्यासत्वादित्याशङ्कायां "अर्थस्य ग्राहकं" इत्यत्रापि "ग्रहणेक्षया" इति वक्ष्यमाणं पदं सम्बन्धनीयं, बहिरर्थनिराकरणपरान् योगाचारादीनधिकृत्यैव "ग्रहणेक्षया" इति वक्ष्यमाणपदस्य योजनात्, ततोऽयमर्थः-ग्रहणं ज्ञानात्पृथग् बाह्यार्थस्य यत्संवेदनं तस्येक्षयापेक्षयार्थस्य यद्ग्राहकं तत्प्रत्यक्षम् । न चार्थस्य ग्राहकमित्येतावतैव बाह्यार्थापेक्षया यद्ग्राहकं तत्प्रत्यक्षमित्येतत्सिद्धमिति वाच्यं, यत आत्मस्वरूपस्यार्थस्य ग्राहकमित्येतावताप्यर्थस्य ग्राहकं भवत्येव, ततो ग्रहणेक्षयेत्यनेन ये योगाचारादयो बहिरर्थकलाकलनविकलं सकलमपि ज्ञानं प्रलपन्ति तानिरस्यति । स्वांशग्रहणे