________________
षड्दर्शन समुचय भाग - २, श्लोक - ५५, जैनदर्शन।
घटदृष्टान्तोक्तरीत्या स्वपरपर्यायाः शब्देषु चोदात्तानुदात्तस्वरि-तविवृतसंवृतघोषवदघोषताल्पप्राणमहाप्राणताभिलाप्यानभिलाप्यार्थवाचकावाचकताक्षेत्रकालादिभेदहेतुकतत्तदनन्तार्थप्रत्यायनशक्त्यादयः, आत्मादिषु च सर्वेषु नित्यानित्यसामान्यविशेषसदसदभिलाप्यानभिलाप्यत्वात्मकता परेभ्यश्च वस्तुभ्यो व्यावृत्तिधर्माश्चावसेयाः । आह-ये स्वपर्यायास्ते तस्य सम्बन्धिनो भवन्तु, ये तु परपर्यायास्ते विभिन्नवस्त्वाश्रयत्वात्कथं तस्य सम्बन्धिनो व्यपदिश्यन्ते ? उच्यते, इह द्विधा सम्बन्धोऽस्तित्वेन नास्तित्वेन च । तत्र स्वपर्यायैरस्तित्वेन सम्बन्धः यथा घटस्य रूपादिभिः । परपर्यायैस्तु नास्तित्वेन सम्बन्धस्तेषां तत्रासम्भवात्, यथा घटावस्थायां मृद्रूपतापर्यायेण, यत एव च ते तस्य न सन्तीति नास्तित्वसंबन्धेन सम्बद्धाः, अत एव च ते परपर्याया इति व्यपदिश्यन्ते । ननु ये यत्र न विद्यन्ते ते कथं तस्येति व्यपदिश्यन्ते, न खलु धनं दरिद्रस्य न विद्यत इति तत्तस्य सम्बन्धि व्यपदेष्टुं शक्यम्, मा प्रापल्लोकव्यवहारातिक्रमः, तदेतन्महामोहमूढमनस्कतासूचकं, यतो यदि नाम ते नास्तित्वसम्बन्धमधिकृत्य तस्येति न व्यपदिश्यन्ते, तर्हि सामान्यतस्ते परवस्तुष्वपि न सन्तीति प्राप्तम्, तथा च ते स्वरूपेणापि न भवेयुर्न चैतदृष्टमिष्टं वा, तस्मादवश्यं ते नास्तित्वसम्बन्धमधिकृत्य तस्येति व्यपदेश्याः, धनमपि च नास्तित्वसम्बन्धमधिकृत्य दरिद्रस्येति व्यपदिश्यत एव, तथा च लोके वक्तारो भवन्ति “धनमस्य दरिद्रस्य न विद्यते" इति । यदपि चोक्तं “तत्तस्येति व्यपदेष्टुं न शक्यं" इति, तत्रापि तदस्तित्वेन तस्येति व्यपदेष्टुं न शक्यं, न पुनर्नास्तित्वेनापि, ततो न कश्चिल्लोकव्यवहारातिक्रमः । ટીકાનો ભાવાનુવાદઃ ધર્માસ્તિકાય, અધર્માસ્તિકાય, આકાશાસ્તિકાય, અને કાલમાં ક્રમશ: અસંખ્યાતપ્રદેશત્વ, અસંખ્યાતપ્રદેશત્વ, અનંતપ્રદેશત્વ, અપ્રદેશત્વ, તથા સર્વ જીવો અને પુગલોનું ગયુપગ્રાહકત્વ, સ્થિત્યુપગ્રાહકત્વ, અવગાહોપગ્રાહકત્વ, વર્તનાપરિણમન છે. તથા અવચ્છેદકાવચ્છેદ્યકત્વ (અર્થાત્ ભિન્ન-ભિન્નપદાર્થોની અપેક્ષાએ ઘટાકાશ - મઠાકાશ, ઘટકાલ-પ્રાત:કાલ ઇત્યાદિ व्यवहारानु पात्र बन), अवस्थितत्व. (अवस्थित २३j), अनादि-अनंतत्व, १३पित्व, અગુરુલઘુતા, એક સ્કંધત્વ, મત્યાદિજ્ઞાનવિષયત્વ, સત્ત્વ (સત્તા), દ્રવ્યત્વ ઇત્યાદિ અનેકધર્મો डोय छे.