________________
६०६
षड्दर्शन समुशय भाग - २, श्लोक - ५५, जैनदर्शन
शब्दतश्च घटस्य नानादेशापेक्षया घटाद्यनेकशब्दवाच्यत्वेनानेके स्वधर्मा घटादितत्तच्छब्दानभिधेयेभ्योऽपरद्रव्येभ्यो व्यावृत्तत्वेनान्ताः परधर्माः । अथवा तस्य घटस्य ये ये स्वपरधर्मा उक्ता वक्ष्यन्ते च तेषां सर्वेषां वाचका यावन्तो ध्वनयस्तावन्तो घटस्य स्वधर्माः, तदन्यवाचकाश्च परधर्माः । सङ्ख्यातश्च घटस्य तत्तदपरापरद्रव्यापेक्षया प्रथमत्वं द्वितीयत्वं तृतीयत्वं यावदनन्ततमत्वं स्यादित्यनन्ताः स्वधर्माः, तत्तत्सङ्ख्यानभिधेयेभ्यो व्यावृत्तत्वेनानन्ताः परधर्माः । अथवा परमाणुसङ्ख्या पलादिसङ्ख्या वा यावती तत्र घटे वर्तते सा स्वधर्मः, तत्संख्यारहितेभ्यो व्यावृतत्त्वेनानन्ताः परपर्यायाः । अनन्तकालेन तस्य घटस्य सर्वद्रव्यैः समं संयोगवियोगभावेनानन्ताः स्वधर्माः, संयोगवियोगाविषयीकृतेभ्यो व्यावृत्तस्यानन्ताः परधर्माश्च । परिमाणतश्च तत्तद्रव्यापेक्षया तस्याणुत्वं महत्त्वं ह्रस्वत्वं दीर्घत्वं चानन्तभेदं स्यादित्यनन्ताः स्वधर्माः । ये सर्वद्रव्येभ्यो व्यावृत्त्या तस्य परपर्यायाः सम्भवन्ति ते सर्वे पृथक्त्वतो ज्ञातव्याः । दिग्देशतः परत्वापरत्वाभ्यां तस्य घटस्यान्यान्यानन्तद्रव्यापेक्षयासन्नतासन्नतरतासन्नतमता दूरता दूरतरता दूरतमता एकद्व्याद्यसङ्ख्यपर्यन्तयोजनैरासन्नता दूरता च भवतीति स्वपर्याया अनन्ताः । अथवाऽपरवस्त्वपेक्षया स पूर्वस्यां तदन्यापेक्षया पश्चिमायां स इत्येवं दिशो विदिशश्चाश्रित्य दूरासन्नादितयाऽसङ्ख्याः स्वपर्यायाः । कालतश्च परत्वापरत्वाभ्यां सर्वद्रव्येभ्यः क्षणलवघटी- दिनमासवर्षयुगादिभिर्घटस्य पूर्वत्वेन परत्वेन चानन्तभेदेनान्ताः स्वधर्माः ।।
ટીકાનો ભાવાનુવાદ: (શબ્દતઃ ઘટની વિચારણા કરતાં) શબ્દતઃ ઘટના નાનાદેશની અપેક્ષાએ ઘટ, કલશ આદિ અનેકશબ્દો વાચ્ય હોવાના કારણે (ઘટના) અનેક સ્વધર્મો છે. તથા ઘટાદિ તે તે શબ્દના અનભિધેય અપર દ્રવ્યો (ઘટથી) વ્યાવૃત્ત થવાના કારણે ઘટના અનંતાપરધર્મો થશે. અર્થાત્ ઘટનો ઘટ, કલશ આદિ અનેક શબ્દોથી પ્રયોગ થતો હોવાથી શબ્દતઃ ઘટના સ્વધર્મો અનેક છે અને જે દ્રવ્યોનો ઘટશબ્દથી પ્રયોગ થતો નથી, તેવા દ્રવ્યો અનંતા છે. તેથી ઘટના પરધર્મો અનંતા છે.
અથવા તે ઘટના જે જે સ્વ-પરધર્મો કહેવાયા અને આગળ કહેવાશે, (તેમાં) તે સર્વે ધર્મના જેટલા વાચક શબ્દો છે, તેટલા ઘટના સ્વધર્મો થશે તથા અન્ય પદાર્થોના જેટલા વાચક શબ્દો छ, ते घटन। ५२या थशे.