________________
५६८
षड्दर्शन समुश्चय भाग - २, श्लोक - ५२, जैनदर्शन
મહામસ્યોમાં સાતમી નરકમૃથ્વીમાં ગમનના કારણભૂત અશુભમનવીર્યના પ્રકર્ષનો સદ્ભાવ હોવા છતાં પણ મુક્તિગમનમાં કારણભૂત શુભમનોવીર્યના પ્રકર્ષનો સદ્દભાવ હોતો નથી.
तथा नहि येषामधोगमनशक्तिः स्तोका तेषामूर्ध्वगतावपि शक्तिः स्तोकैव, भुजपरिसर्पादिभिर्व्यभिचारात् । तथाहि-भुजपरिसर्पा अधो द्वितीयामेव पृथ्वीं गच्छन्ति न ततोऽधः, पक्षिणस्तृतीयां यावत्, चतुर्थी चतुष्पदाः, पञ्चमीमुरगाः, अथ च सर्वेऽप्यूर्ध्वमुत्कर्षतः सहस्रारं यावद्गच्छन्ति, अतो न सप्तमपृथ्वीगमनायोग्यत्वेन विशिष्टसामर्थ्यासत्त्वम् । नापि वादादिलब्धिरहितत्वेन, मूककेवलिभिर्व्यभिचारात् । तथाल्पश्रुतत्वेनेति पक्षस्त्वनुद्घोष्य एव, मुक्त्यवाप्त्यानुमितविशिष्टसामर्थ्यषितुषादिभिरनेकान्तिकत्वात्, तन्न विशिष्टसामर्थ्यासत्त्वं स्त्रीणां घटते २ । नापि पुरुषानभिवन्द्यत्वेन स्त्रीणां हीनत्वं, यतस्तदपि किं सामान्येन १ गुणाधिकपुरुषापेक्षया २ वा ? आद्योऽसिद्धः, तीर्थजनन्यादयो हि शक्रैरपि पूज्यन्ते किमङ्ग शेषपुरुषैः । द्वितीयश्चेत्, तदा गणधरा अपि तीर्थंङ्करैर्नाभिवन्द्यन्त इति तेषामपि हीनत्वान्मोक्षो न स्यात् । तथा चतुर्वर्णस्य सङ्घस्य तीर्थङ्करैर्वन्द्यत्वात्सङ्घान्तर्गतत्वेन संयतीनामपि तीर्थंकरवन्द्यत्वाभ्युपगमात्कथं स्त्रीणां हीनत्वम् ३ ? अथ स्मारणाद्यकर्तृत्वेनेति पक्षः, तदाचार्याणामेव मुक्तिः स्यान्न शिष्याणां, तेषां स्मारणाद्यकर्तृत्वात् ४ । अथामहर्दिकत्वेनेति पक्षः, सोऽपि न दक्षः, यतो दरिद्राणामपि केषाञ्चिन्मुक्तिः श्रूयते केषाञ्चिन्महर्द्धिकाणामपि चक्रवर्त्यादीनां तदभावः ५ । अथ मायादिप्रकर्षकत्वेनेति, तदपि न युक्तं, नारददृढप्रहारिभिर्व्यभिचारात्, तन्न हीनत्वं कथमपि स्त्रीणां जाघटीतीति हीनत्वादित्यसिद्धो हेतुः ६ । ततश्चाविगानेन पुरुषाणामिव योषितामपि निर्वाणं प्रतिपत्तव्यम् । प्रयोगश्चात्र-अस्ति स्त्रीणां मुक्तिः अविकलकारणवत्त्वात्, पुंवत्, तत्कारणानि सम्यग्दर्शनादीनि स्त्रीषु संपूर्णान्युपलभ्यन्ते । ततो भवत्येव स्त्रीणां मोक्ष इति स्थितं मोक्षतत्त्वम् । एतेन “ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वागच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ।।१।।” इति परपरिकल्पितं पराकृतम् ।।५२ ।।
ટીકાનો ભાવાનુવાદ:
વળી જેઓમાં અધોગમનની શક્તિ સ્તોક (અલ્પ) છે. તેઓમાં ઉર્ધ્વગમનની શક્તિ પણ સ્તોક (અલ્પ) જ હોય છે તેવું નથી. કારણકે ભુજપરિસર્પાદિ સાથે વ્યભિચાર આવે છે. તે આ प्रभाए छ