________________
षड्दर्शन समुझय भाग - २, श्लोक - ५२, जैनदर्शन
५६१
अथात्र दिगम्बराः स्वयुक्तीः स्फोरयन्ति । ननु भवतु यथोक्तलक्षणो मोक्षः, परं स पुरुषस्यैव घटते न त्वङ्गनायाः, तथाहि-न स्त्रियो मोक्षभाजनं भवन्ति, पुरुषेभ्यो हीनत्वात्, नपुंसकवत् । अत्रोच्यते-स्त्रीणां पुरुषेभ्यो हीनत्वं किं चारित्राद्यभावेन १ विशिष्टसामर्थ्यासत्त्वेन २ पुरुषानभिवन्द्यत्वेन ३ स्मारणाद्यकर्तृत्वेन ४ अमहर्दिकत्वेन ५ मायादिप्रकर्षवत्त्वेन ६ वा, तत्र न तावदाद्यः पक्षः क्षोदक्षमः, यतः किं चारित्राभावः सचेलत्वेन १ मन्दसत्त्वतया २ वा, तत्र यद्याद्यपक्षः, तदा चेलस्यापि चारित्राभावहेतुत्वं किं परिभोगमात्रेण १ परिग्रहरूपतया २ वा, यदि परिभोगमात्रेण, तदा परिभोगोऽपि किं वस्रपरित्यागासमर्थत्वेन १ संयमोपकारित्वेन २ वा, तत्र न तावदाद्यः, यतः प्राणेभ्योऽपि नापरं प्रियं, प्राणानप्येताः परित्यजन्त्यो दृश्यन्ते, वस्त्रस्य का कथा ? अथ संयमोपकारित्वेन, तर्हि किं न पुरुषाणामपि संयमोपकारितया वस्त्रपरिभोगः ? । अथाबला एता बलादपि पुरुषैरुपभुज्यन्त इति तद्विना तासां संयमबाधासम्भवो न पुनर्नराणामिति न तेषां तदुपभोग इति चेत् ? तर्हि न वस्त्राचारित्राभावः, तदुपकारित्वात्तस्य, आहारादिवत् । नापि परिग्रहरूपतया,यतोऽस्य तद्रूपता किं मूर्छा हेतुत्वेन १ धारणमात्रेण वा २ अथवा स्पर्शमात्रेण ३ जीवसंसक्तिहेतुत्वेन वा ४, तत्र यद्याद्यः तर्हि शरीरमपि मूर्छाया हेतुर्न वा ? न तावदहेतुः, तस्यान्तरङ्गतत्वेन दुर्लभतरतया विशेषतस्तद्धेतुत्वात् । अथ मूर्छाया हेतुरिति पक्षः, तर्हि वस्त्रवत्तस्यापि किं दुस्त्यजत्वेन १ मुक्त्यङ्गतया वा २, न प्रथमत एव परिहारः ? यदि दुस्त्यजत्वेनेति पक्षः, तदा तदपि किं सर्वपुरुषाणां १ केषाञ्चिद्वा २ । न तावत्सर्वेषां, दृश्यन्ते हि बहवो वह्निप्रवेशादिभिः शरीरमपि त्यजन्तः । अथ केषाञ्चित्, तदा वनमपि केषाञ्चिद्दुस्त्यजमिति न परिहार्यं शरीरवत् । अथ मुक्त्यङ्गत्वेनेति पक्षः, तर्हि वस्त्रस्यापि तथाविधशक्तिविकलानां स्वाध्यायाधुपष्टम्भकत्वेन शरीरवन्मुक्त्यङ्गत्वात्किमिति परिहारः ? अथ धारणमात्रेण, एवं सति शीतकाले प्रतिमापन्नं साधुं दृष्ट्वा केनाप्यविषह्योपनिपातमद्य शीतमिति विभाव्य धर्मार्थिना साधुशिरसि वस्ने प्रक्षिप्ते सपरिग्रहता स्यात् । अथ यदि स्पर्शमात्रेण, तदा भूम्यादिना निरन्तरं स्पर्शसद्भावात्सपरिग्रहत्वेन तीर्थङ्करादीनामपि न मोक्षः स्यादिति लाभमिच्छतो भवतो मूलक्षतिः सञ्जाता । अथ जीवसंसक्तिहेतुत्वेन, तर्हि