________________
५५०
षड्दर्शन समुश्चय भाग - २, श्लोक - ५२, जैनदर्शन
___ अथ सौगताः संगिरन्ते । ननु ज्ञानक्षणप्रवाहव्यतिरेकेण कस्याप्यात्मनोऽभावात्कस्य मुक्तौ ज्ञानादिस्वभावता प्रसाध्यते ? मुक्तिश्चात्मदर्शिनोदूरोत्सारिता-यो हि पश्यत्यात्मानं स्थिरादिरूपं तस्यात्मनि स्थैर्यगुणदर्शननिमित्तस्नेहोऽवश्यंभावी, आत्मस्नेहाश्चात्मसुखेषु परितृप्यन् सुखेषु तत्साधनेषु च दोषांस्तिरस्कृत्य गुणानारोपयति, गुणदर्शी च परितृप्यन्ममेतिः सुखसाधनान्युपादत्ते । ततो यावदात्मदर्शनं तावत्संसार एव । तदुक्तम्“यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतहः । हात्सुखेषु तृप्यति तृष्णा दोषांस्तिरस्कुरुते ।।१।। गुणदर्शी परितृप्यन्ममेति सुखसाधनान्युपादत्ते । तेनात्माभिनिवेशो यावत्तावत्स संसारः ।।२ ।। आत्मनि सति परसंज्ञा स्वपरविभागात्परिग्रहद्वेषौ । अनयोः संप्रतिबद्धाः सर्वे दोषाः समायान्ति ।।३।।” [प्र० वा० १/२१९-२२१] ततो मुक्तिमिच्छता पुत्रकलत्रादिकं स्वरूपं चानात्मकमनित्यमशुचि दुःखमिति श्रुतमय्या चिन्तामय्या च भावनया भावयितव्यम्, एवं भावयतस्तत्राभिष्वङ्गाभावादभ्यासविशेषाद्वैराग्यमुपजायते, ततः सास्रवचित्तसं ानलक्षणसंसारविनिवृत्तिरूपा मुक्तिरुपपद्यते । अथ तद्भावनाभावेऽपि कायक्लेशलक्षणात्तपसः सकलकर्मप्रक्षयान्मोक्षो भविष्यतीति चेत् ? न, कायक्लेशस्य कर्मफलतया नारकादिकाय-संतापवत् तपस्त्वायोगात् । विचित्रशक्तिकं च कर्म, विचित्रफलदानान्यथानुपपत्तेः । तच कथं कायसंतापमात्रात् क्षीयते, अतिप्रसङ्गात् । अथ तपःकर्मशक्तीनां संकरेण क्षयकरणशीलमिति कृत्वा एकरूपादपि तपसश्चित्रशक्तिकस्य कर्मणः क्षयः । नन्वेवं स्वल्पक्लेशेनोपवासादिनाप्यशेषस्य कर्मणः क्षयापत्तिः, शक्तिसांकार्यान्यथानुपपत्तेः । उक्तंच-कर्मक्षयाद्धि मोक्षः स च तपसस्तञ्च कायसंतापः कर्मफलत्वानारकदुःखमिव कथं तपस्तत्स्यात् ।।१ । । अन्यदपि चैकरूपं तञ्चित्रक्षयनिमित्तमिह न स्यात् । तच्छक्तिसंकरः क्षयकरीत्यपि वचनमात्रम् ।।२।।” तस्मानैरात्म्यभावनाप्रकर्षविशेषाञ्चित्तस्य निःक्लेशा-वस्था मोक्षः ।।
(હવે બૌદ્ધો આ વિષયમાં પોતાનો મત પ્રગટ કરે છે.) - પૂર્વપક્ષ (બોદ્ધ) પ્રતિક્ષણમાં નષ્ટ થનારા જ્ઞાનક્ષણના પ્રવાહને છોડીને બીજા કોઈ આત્માનો અભાવ હોવાથી મુક્તિમાં કોની જ્ઞાનાદિસ્વભાવતા સિદ્ધ કરો છો ? (કહેવાનો આશય એ છે કે જ્ઞાનક્ષણના પ્રવાહથી અતિરિક્ત બીજો કોઈ આત્મા નથી. જ્યારે જ્ઞાનક્ષણના પ્રવાહનો