________________
षड्दर्शन समुच्चय भाग - २, श्लोक - ५२, जैनदर्शन
नोऽप्युच्छेदप्रसङ्गः । ततश्च कस्यासौ मोक्षः ? भिन्नाभिन्नपक्षाभ्युपगमे चापसिद्धान्तः । किंच A विरुद्धश्चायं हेतुः, कार्यकारणभूतक्षणप्रवाहलक्षणसंतानत्वस्य नित्यानित्यैकान्तयोरसंभवात् । अर्थक्रियाकारित्वस्यानेकान्त एव प्रतिपादिष्यमाणत्वात् । साध्यविकलश्च दृष्टान्तः, प्रदीपादेरत्यन्तोच्छेदासंभवात्, तैजसपरमाणूनां भास्वररूपपरित्यागेनान्धकाररूपतयावस्थानात् । प्रयोगश्चात्र पूर्वापरस्वभावपरिहाराङ्गीकारस्थितिलक्षणपरिणामवान्प्रदीपः, सत्त्वात्, घटादिवदिति । अत्र बहु वक्तव्यं, तत्त्वभिधास्यते विस्तरेणाने - कान्तप्रघट्टके । किंच इन्द्रियजानां बुद्ध्यादिगुणानामुच्छेदः साध्यमानोऽस्ति भवता उतातीन्द्रियाणाम् ? तत्राद्यपक्षे सिद्धसाधनं अस्माभिरपि तत्र तदुच्छेदाभ्युपगमात् । द्वितीयविकल्पे मुक्तौ कस्यचिदपि प्रवृत्त्यनुपपत्तिः । मोक्षार्थी हि सर्वोऽपि निरतिशयसुखज्ञानादिप्राप्त्यभिलाषेणैव प्रवर्तते, न पुनः शिलाशकलकल्पमगतसकलसुखसंवेदनमात्मानमुपपादयितुं यतते, यदि मोक्षावस्थायामपि पाषाणकल्पोऽपगतसुखसंवेदनलेशः पुरुषः संपद्यते, तदा कृतं मोक्षेण, संसार एव वरीयान् । यत्र सान्तरापि सुखलेशप्रतिपत्तिरप्यस्ति । अतो न वैशेषिकोपकल्पिते मोक्षे कस्यचिद्गन्तुमिच्छा । उक्तंच“वरं वृन्दावने वासः, श्रृगालैश्च सहोषितम् । नतु वैशेषिकीं मुक्तिं, गौतमो गन्तुमिच्छति ।।१।।”
५३९
ટીકાનો ભાવાનુવાદ :
उत्तरपक्ष (नैन) : तभारो 'संतानत्व' हेतु प्रभाएाथी जाधित होवाना अरो साध्यने सिद्ध री शतो नथी. तेथी सत्य नथी. अ२ } ( १ ) 'संतानत्व' हेतु आत्माथी सर्वथाभिन्न सेवा बुद्धि આદિ ગુણોનો ઉચ્છેદ કરે છે ? કે (૨) આત્માથી સર્વથાઅભિન્ન એવા બુદ્ધિઆદિ ગુણોનો ઉચ્છેદ કરે છે ? કે (૩) આત્માથી કથંચિત્ ભિન્ન એવા બુદ્ધિઆદિ ગુણોનો ઉચ્છેદ કરે છે ?
તેમાં પ્રથમપક્ષમાં હેતુ આશ્રયાસિદ્ધ બની જાય છે. કારણકે સંતાનથી અત્યંતભિન્ન સંતાન જ ઉપલબ્ધ થતી નથી, અસત્ છે. આત્માથી ભિન્ન સત્તા રાખનારા બુદ્ધિઆદિ ગુણોનો આશ્રય સિદ્ધ જ નથી કે જેમાં તમારો હેતુ રહે ! આથી હેતુ આશ્રયાસિદ્ધ બને છે. સ્વસાધ્યને સાધી शडतो नथी.
A. “विरुद्धश्चायं हेतुः, शब्दबुद्धिप्रदीपादिषु अत्यन्तानुच्छेदवत्स्वेव संतानत्वस्य भावात् ।।” सम्मति० टी० । न्यायकुमु० । प्रमेयकः । रत्नाकराव० - ७/५७ ।
“यदि हि मोक्षावस्थायां शिलाशकलकल्पः अपगतसुखसंवेदनलेशः पुरुषः संपद्यते तदा कृतं मोक्षेण [ न्यायकुमु० पृ. ८२८]
B.