________________
षड्दर्शन समुचय भाग-२, श्लोक-५२, जैनदर्शन
५३५
અનુક્રમે અધો, તિર્જી અને ઉર્ધ્વ ગતિમાં પ્રવર્તે છે, તેમ આત્માની સ્વભાવતઃ ઉર્ધ્વગતિ છે. જીવોની અધો, તિચ્છિ અને ઉર્ધ્વ ગતિ કર્મના કારણે ઉત્પન્ન થાય છે, પરંતુ ઉર્ધ્વગતિ જીવનો धर्म छ.
તે ઉર્ધ્વગતિ ક્ષીણકર્મોવાળા આત્માઓની હોય છે. પ્રશ્ન : લોકના અગ્રભાગ સુધી જ જીવની ગતિ શા માટે હોય છે ? તેનાથી ઉપર જીવ શા માટે ગતિ કરી શકતો નથી ?
ઉત્તરઃ અલોકમાં ધર્માસ્તિકાયનો અભાવ હોવાથી જીવની ત્યાં ગતિ થતી નથી. ધર્માસ્તિકાય गतिर्नु ५२म(अपेक्षा)॥२५॥ छ. ॥१-८॥" ધર્માસ્તિકાય જીવ અને પુગલની ગતિમાં કારણ છે, તે પહેલાં પણ સિદ્ધ કરેલ જ છે.
ननु भवतु कर्मणामभावेऽपि पूर्वप्रयोगादिभिर्जीवस्योर्ध्वगतिः, तथापि सर्वथा शरीरेन्द्रियादिप्राणानामभावान्मोक्षे जीवस्याजीवत्वप्रसङ्गः । यतो जीवनं प्राणधारणमुच्यते, तचेन्नास्ति, तदा जीवस्य जीवनाभावादजीवत्वं स्यात्, अजीवस्य च मोक्षाभाव इति चेत् ? न, अभिप्रायापरिज्ञानात्, प्राणा हि द्विविधाः, द्रव्यप्राणा भावप्राणाश्च । मोक्षे च द्रव्यप्राणानामेवाभावः, न पुनर्भावप्राणानाम् । भावप्राणाश्च मुक्तावस्थायामपि सन्त्येव । यदुक्तम्-“यस्मात्क्षायिकसम्यक्त्ववीर्यदर्शनज्ञानैः । आत्यन्तिकैः स युक्तो निर्द्वन्द्वेनापि च सुखेन ।।१।। ज्ञानादयस्तु भावप्राणा मुक्तोऽपि जीवति स तैर्हि । तस्मात्तज्जीवत्वं नित्यं सर्वस्य जीवस्य ।।२।।" ततश्चानन्तज्ञानानन्तदर्शनानन्तवीर्यानन्तसुखलक्षणं जीवनं सिद्धानामपि भवतीत्यर्थः । सुखं च सिद्धानां सर्वसंसारसुखविलक्षणं परमानन्दमयं ज्ञातव्यम् । उक्तं च “नवि अत्थि माणुसाणं तं सुक्खं नेव सव्वदेवाणं । जं सिद्धाणं सुक्खं आव्वाबाहं उवगयाणं ।।१ । । सुरगणसुहं समग्गं सव्वद्धा पिण्डियं अनन्तगुणं । नवि पावइ मुत्तिसुहं णन्ताहिवि वग्गवग्गूहिं ।।२ ।। सिद्धस्स सुहो रासी सव्वद्धा पिण्डिउं जइ हविज्जा । सोऽणन्तवग्गभइओ सव्वागासे न माइज्जा ।।३।।" तथा योगशास्त्रेऽप्युक्तम्-“सुरासुरनरेन्द्राणां यत्सुखं भवनत्रये । तत्स्यादनन्तभागेऽपि न मोक्षसुखसंपदः ।।१ ।। स्वस्वभावजमत्यक्षं यस्मिन्वै शाश्वतं सुखम् । चतुर्वर्गाग्रणीत्वेन तेन मोक्षः प्रकीर्तितः ।।२।।"