________________
षड्दर्शन समुदय भाग - २, श्लोक - ५१, जैनदर्शन
____
५२७
अथ संवरबन्धी विवृणोति । હવે સંવરુ અને બંધતત્ત્વનું નિરૂપણ કરે છે.
संवरस्तनिरोधस्तु, बन्धो जीवस्य कर्मणः ।
अन्योन्यानुगमात्मा तु, यः सम्बन्धो द्वयोरपि ।।५१ ।। શ્લોકાર્થ આશ્રવના નિરોધને સંવર કહેવાય છે. જીવ અને કર્મનું એકમેકથઈને મળી જવું બંનેનો પરસ્પર-અનુપ્રવેશસ્વરૂપ સંબંધ થવો તે બંધ કહેવાય છે. પિ૧l
व्याख्या-तेषां-मिथ्यात्वाविरतिप्रमादकषाययोगानामास्रवाणां सम्यग्दर्शनविरतिप्रमादपरिहारक्षमादिगुप्तित्रयधर्मानुप्रेक्षाभिनिरोधो-निवारणं स्थगनं संवरः, पर्यायकथनेन व्याख्या । आत्मनः कर्मोपादानहेतुभूतपरिणामाभावः संवर इत्यभिप्रायः । स देशसर्वभेदावेधा । तत्र बादरसूक्ष्मयोगनिरोधकाले सर्वसंवरः । शेषकाले चरणप्रतिपत्तेरारभ्य देशसंवरः ।। अथ बन्धतत्त्वमाह__ “बन्धो जीवस्य कर्मणः” इत्यादि । तत्र बन्धनं बन्धः-परस्पराश्लेषो जीवप्रदेशपुद्गलानां क्षीरनीरवत्, अथवा बध्यते येनात्मा पारतन्त्र्यमापद्यते ज्ञानावरणादिना स बन्धः-पुद्गलपरिणामः । ननु जीवकर्मणोःसम्बन्धः किं गोष्ठामाहिलपरिकल्पितकञ्चुकिकञ्चकसंयोगकल्प उतान्यः कश्चिदित्याशयाह “द्वयोरपि” कर्मवर्गणायोग्यस्कन्धानां जीवस्य चान्योन्यानुगमात्मा-अन्योन्यानुगतिस्वरूपः परस्परानुप्रवेशरुप इत्यर्थः । अयमत्र भावः-वन्ययस्पिण्डसम्बन्धवत् क्षीरोदकसम्पर्कवद्वा जीवकर्मणोर्मिथोऽनुप्रवेशात्मक एव सम्बन्धो बन्धो बोद्धव्यो, न पुनः कञ्चुचिकञ्चकसंयोगकल्पोऽन्यो वेति । अत्राह-कथममूर्तस्यात्मनो हस्ताद्यसंभवे सत्यादानशक्तिविरहात्कर्मग्रहणमुच्यत इति चेत् ? उच्यते, इयमेव तावदस्थानारेकाप्रक्रिया भवतोऽनभिज्ञता ज्ञापयति, यतः केनामूर्तताभ्युपेता-त्मनः ? कर्मजीवसम्बन्धस्यानादित्वादेकत्वपरिणामे सति क्षीरोदकवन्मूर्त एव कर्मग्रहणे व्याप्रियते, नच हस्तादिव्यापारादेयं कर्म, किंतु पौद्गलमपि सदध्यवसायविशेषाद्रागद्वेषमोहपरिणामाभ्यञ्जनलक्षणादात्मनः कर्मयोग्यपुद्गलजालश्लेषणमादानं स्नेहाभ्यक्तवपुषो रजोलगनवदिति । प्रतिप्रदेशानन्तपरमाणुसंश्लेषाज्जीवस्य कर्मणा सह लोलीभावान्क-थंचिन्मूर्त्तत्वमपि संसारावस्थायामभ्युपगम्यत एव