________________
षड्दर्शन समुञ्चय भाग -२, श्लोक, ४८-४९, जैनदर्शन
५०१
स्कन्धाः पुनर्यणुकादयोऽनन्ताणुकपर्यन्ताः सावयवाः प्रायो ग्रहणादादा-नादिव्यापारसमर्थाः परमाणुसंघाता इति । एते धर्माधर्माकाशकालपुद्गला जीवैः सह षड्द्रव्याणि । एष्वाद्यानि चत्वार्येकद्रव्याणि, जीवाः पुद्गलाश्चानेकद्रव्याणि, पुद्गलरहितानि तानि पञ्चामूर्तानि, पुद्गलास्तु मूर्ता एवेति । ननु जीवद्रव्यस्यारूपिणोऽप्युपयोगस्वभावत्वेन स्वसंवेदनसंवेद्यत्वादस्तित्वं श्रद्धानपथमवतारयितुं शक्यम् । धर्माधर्मास्तिकायादीनां तु न जातुचिदपि स्वसंवेदनसंवेद्यत्वं समस्ति, अचेतनत्वात् । नापि परसंवेदनवेद्यता, नित्यमरूपित्वेन । तत्कथं तेषां धर्मास्तिकायादीनां सतां सत्ता श्रद्धेया स्यादिति चेत् ? उच्यते, प्रत्यक्षेण योऽर्थो नोपलभ्यते स सर्वथा नास्त्येव, यथा शशविषाणमित्येकान्तेन न मन्तव्यं । यत इह लोके द्विविधानुपलब्धिर्भवति, तत्रैकाऽसतो वस्तुनोऽनुपलब्धिः, यथा तुरङ्गमोत्तमाङ्गसंसर्गानुषङ्गिशृङ्गस्य, द्वितीया तु सतामप्यर्थानामनुपलब्धिर्भवति । या च सत्स्वभावानामपि भावानामनुपलब्धिः, सात्राष्टधाभिद्यते । तथाहि-अतिदूरात्, १, अतिसामीप्यात् २, इन्द्रियघातात् ३, मनसोऽनवस्थानात् ४, सौक्ष्म्यात् ५, आवरणात् ६, अभिभवात् ७, समानाभिहाराचेति ८ । तत्रातिदूराद्देशकालस्वभावविप्रकर्षात्त्रिविधानुपलब्धिः । तत्र देशविप्रकर्षात् यथा कश्चित् देवदत्तो ग्रामान्तरं गतो न दृश्यते, तत्कथं स नास्ति ? सोऽस्त्येव, देशविप्रकर्षान्नोपलब्धिः । एवं समुद्रस्य परतटं मेर्वादिकं वा सदपि नोपलभ्यते । तथा कालविप्रकर्षात् भूता जिनपूर्वजादयो भविष्या वा पद्मनाभादयो जिना नोपलभ्यन्ते, अभूवन भविष्यन्ति च ते । तथा स्वभावविप्रकर्षान्नभोजीवपिशाचादयो नोपलभ्यन्ते, न च ते न सन्ति १ । तथातिसामीप्यात् यथा नेत्रकज्जलं नोपलभ्यते तत्कथं तन्नास्ति ? तदस्त्येव, पुनरतिसामीप्यान्नोपलभ्यते २ । तथेन्द्रियघातात यथा अन्धबधिरादयो रुपशब्दादीनोपलभ्यते तत्कथं रूपादयो न सन्ति ? सन्त्येव, ते पुनरिन्द्रियघातानोपलभ्यन्ते ३ । ટીકાનો ભાવાનુવાદઃ qયણુકાદિ સ્કન્ધો છે. યાવતુ અનંત અણુવાળાદ્રવ્યો સ્કન્ધ કહેવાય છે. તે સ્કન્ધો અવયવોવાળા છે. તે પ્રાયઃ આપવું, લેવું વગેરે વ્યાપારમાં સમર્થ હોય છે. તે સ્કન્ધો પરમાણુના સંઘાતસ્વરૂપ છે.
આ ધર્માસ્તિકાય, અધર્માસ્તિકાય, આકાશ, કાલ, પુદ્ગલો અને જીવોની સાથે છ દ્રવ્યો છે.