________________
४९६
षड्दर्शन समुञ्चय भाग - २, श्लोक, ४८-४९, जैनदर्शन
આ કાલ નિર્વકકારણ કે પરિણામિકારણ નથી, પરંતુ સ્વયં ઉત્પન્ન થતા ભાવો “આ કાલમાં જ થાય, અન્ય કાલે નહિ” આવીરીતે અપેક્ષાકારણ બને છે. અર્થાતુ પોતાની રીતે પરિણમન પામતા પદાર્થોના પરિણમનમાં “આ પરિણમન આ કાલમાં થવું જોઈએ, બીજા કાલમાં નહિ આવા સ્વરૂપે કાલ અપેક્ષાકારણ બને છે.
कालकृता वर्तनाद्या वस्तूनामुपकाराः । अथवा वर्तनाद्या उपकाराः कालस्य लिङ्गानि, ततस्तानाह “वर्तना परिणामः क्रियापरत्वापरत्वे च" [तत्त्वार्थाधिगमः ५, २२] । तत्र वर्तन्ते स्वयं पदार्थाः, तेषां वर्तमानानां प्रयोजिका कालाश्रया वृत्तिर्वर्तना, प्रथमसमयाश्रया स्थितिरित्यर्थः १ । परिणामो द्रव्यस्य स्वजात्यपरित्यागेन परिस्पन्देतरप्रयोगजपर्यायस्वभावः परिणामः । तद्यथा-वृक्षस्याङ्कुरमूलाद्यवस्थाः परिणामः, आसीदङ्कुरः, सम्प्रति स्कन्धवान्, ऐषमः पुष्पिष्यतीति । पुरुषद्रव्यस्य बालकुमारयुवाद्यवस्थाः परिणामः । एवमन्यत्रापि । परिणामो द्विविधः, अनादिरमूर्तेषु धर्मादिषु, मूर्तेषु तु सादिरभ्रेन्द्रधनुरादिषु स्तम्भकुम्भाम्भोरुहादिषु च । ऋतुविभागकृतो वेलाविभागकृतश्च परिणामस्तुल्यजातीयानां वनस्पत्यादीनामेकस्मिन्काले विचित्रो भवति २ । प्रयोगविस्रसाभ्यां जनितो जीवानां परिणमनव्यापारःकरणं क्रिया तस्या अनुग्राहकः कालः । तद्यथा-नष्टो घटः, सूर्यं पश्यामि, भविष्यति वृष्टिरित्यादिका अतीतादिव्यपदेशाः परस्परासंकीर्णा यदपेक्षया प्रवर्तन्ते, स काल: ३ । इदं परमिदमपरमितिप्रत्ययाभिधाने कालनिमित्ते ४ । तदेवं वर्तनाद्युपकारानुमेयः कालो द्रव्यं मानुषक्षेत्रे । मनुष्यलोकाबहिः कालद्रव्यं नास्ति । सन्तो हि भावास्तत्र स्वयमेवोत्पद्यन्ते व्ययन्त्यवतिष्ठन्ते च । अस्तित्वं च भावानां स्वत एव, नतु कालापेक्षम् । न च तत्रत्याः प्राणापाननिमेषोन्मेषायुःप्रमाणादिवृत्तयः कालापेक्षाः, तुल्यजातीयानां सर्वेषां युगपदभवनात् । कालापेक्षा ह्यर्थास्तुल्यजातीयानामेकस्मिन् काले भवन्ति, न विजातीयानाम् । ताश्च प्राणादिवृत्तयस्तद्वतां नैकस्मिन्काले भवन्त्युपरमन्ति चेति । तस्मान्न कालापेक्षास्ताः । परत्वापरत्वे अपि तत्र चिराऽचिरस्थित्यपेक्षे, स्थितिश्चास्तित्वापेक्षा, अस्तित्वं च स्वत एवेति । ये तु कालं द्रव्यं न मन्यन्ते, तन्मते सर्वेषां द्रव्याणां वर्तनादयः पर्याया एव सन्ति, न त्वपेक्षाकारणं कश्चन काल इति ।।४।।