________________
४९०
षड्दर्शन समुच्चय भाग - २, श्लोक, ४८-४९, जैनदर्शन
જો તે હાથરૂપ હોય તો ચક્ષુથી જોઈ શકે કેવી રીતે ? આથી ચહ્યું અને હાથઉપર નિયંત્રણ રાખનાર, તે બંનેથી ભિન્ન આત્મા માનવો જોઈએ.) તેથી આત્મા ચલું અને હાથથી ભિન્ન છે.
આ રીતે આ વિષયમાં એક નહિ અનેક અનુમાનો-યુક્તિઓ છે. તે વિશેષાવશ્યકભાષ્યની ટીકાથી જાણી લેવી. આ રીતે વિસ્તારથી જીવતત્ત્વનું સ્વરૂપ કહેવાયું. अजीवतत्त्वं व्याचिख्यासुराह“यश्चैतद्विपरीतवान्" इत्यादि । यश्चैतस्माद्विपरीतानि विशेषणानि विद्यन्ते यस्यासावेतद्विपरीवान् सोऽजीवः समाख्यातः । “यश्चैतद्वैपरीत्यवान्” इति पाठे तु । यः पुनस्तस्माज्जीवाद्वैपरीत्यमन्यथात्वं तद्वानजीवः स समाख्यातः । अज्ञानादिधर्मेभ्यो रूपरसगन्धस्पर्शादिभ्यो भिन्नाभिन्नो नरामरादिभवान्तराननुयायी ज्ञानावरणादिकर्मणामकर्ता तत्फलस्य चाभोक्ता जडस्वरूपश्चाजीव इत्यर्थः । स च धर्माधर्माकाशकालपुद्गलभेदात्पञ्चविधोऽभिधीयते । तत्र धर्मो लोकव्यापी नित्योऽवस्थितोऽरूपी द्रव्यमस्तिकायोऽसंख्यप्रदेशो गत्युपग्रहकारी च भवति । अत्र नित्यशब्देन स्वभावादप्रच्युत आख्यायते । अवस्थितशब्देनान्यूनाधिक आविर्भाव्यते । अन्यूनाधिकश्चानादिनिधनतेयत्ताभ्यां न स्वतत्त्वं व्यभिचरति । तथाऽरूपिग्रहणादमूर्त उच्यते । अमूर्तश्च रूपरसगन्धस्पर्शपरिणामबाह्यवर्त्यभिधीयते । न खलु मूर्ति स्पर्शादयो व्यभिचरन्ति, सहचारित्वात् । यत्र हि रूपपरिणामस्तत्र स्पर्शरसगन्धैरपि भाव्यम् । अतः सहचरमेतञ्चतुष्टयमन्ततः परमाणावपि विद्यते । तथा द्रव्यग्रहणाद्गुणपर्यायवान् प्रोच्यते, “गुणपर्यायवद्रव्यम्” [त. सू० ५/३८] इति वचनात् । तथास्तयः-प्रदेशाः प्रकृष्टा देशाः प्रदेशा निर्विभागानि खण्डानीत्यर्थः । तेषां-समुदायः कथ्यते । तथा लोकव्यापीतिवचनेनासंख्यप्रदेश इतिवचनेन च लोकाकाशप्रदेशप्रमाणप्रदेशो निर्दिश्यते । तथा स्वत एव गतिपरिणतानां जीवपुद्गलानामुपकारकरोऽपेक्षाकारणमित्यर्थः । कारणं हि त्रिविधमुच्यते, यथा घटस्य मृत्परिणामिकारणं १, दण्डादयो ग्राहकाश्च निमित्तकारणं २, कुम्भकारो निर्वर्तकं कारणम् ३ । तदुक्तम्-“निर्वर्तकं निमित्तं, परिणाम, च विधेष्यते हेतुः । कुम्भस्य कुम्भकारो, धर्ता मृश्चेति समसंख्यम् ।।१।।" निमित्तकारणं च द्वेधा निमित्तकारणमपेक्षाकारणं च । यत्र A उद्धृतेयं त० भा० टी० ५/१७ ।