________________
षड्दर्शन समुच्चय भाग - १, श्लोक - १
यस्य स सद्दर्शनः सर्वज्ञः सर्वदर्शी चेत्यर्थः तम् । अनेन विशेषणेन श्री वर्धमानस्य भगवतो ज्ञानातिशयमाविरबीभवत् । अथवा सदर्चितं सकलनरासुरामरेन्द्रादिभिरभ्यर्चितं दर्शनं जैनदर्शनं यस्य स सद्दर्शनस्तम् । अनेन च तदीयदर्शनस्य त्रिभुवनपूज्यतामभिदधानः श्रीवर्धमानस्य त्रिभुवनविभोः सुतरां त्रिभुवनपूज्यतां व्यनक्तीति पूजातिशयं प्राचीकटत् । तथा जयति रागद्वेषादिशत्रूनिति जिनस्तम् अनेनापायापगमातिशयमुदबीभवत् । तथा स्यात्कथंचित्सर्वदर्शनसंमतसद्भूतवस्त्वंशानां मिथः सापेक्षतया वदनं स्याद्वादः । सदसन्नित्यानित्यसामान्यविशेषाभिलाप्यानभिलाप्योभयात्मानेकान्त इत्यर्थः । ननु कथं सर्वदर्शनानां परस्परविरुद्धभाषिणामभीष्टा वस्त्वंशाः के सद्भूताः संभवेयुः येषां मिथः सापेक्षतया स्याद्वादः सत्प्रवादः स्यादिति चेत् उच्यते । यद्यपि दर्शनानि निजनिजमतभेदेन परस्परं विरोधं भजन्ते तथापि तैरुच्यमानाः सन्ति तेऽपि वस्त्वंशा ये मिथः सापेक्षाः सन्तः समीचीनतामञ्चन्ति । तथाहि । सौगतैरनित्यत्वं, सांख्यैर्नित्यत्वं, नैयायिकैर्वैशेषिकैश्च परस्परविविक्ते नित्यानित्यत्वे सदसत्वे सामान्यविशेषौ च, मीमांसकैः स्याद्-शब्दवर्ज भिन्नाभिन्ने नित्यानित्यत्वे सदसदंशौ सामान्यविशेषौ शब्दस्य नित्यत्वं च, कैश्चित्कालस्वभावनियतिकर्मपुरुषादीनि जगत्कारणानि, शब्दब्रह्मज्ञानाद्वैतवादिभिश्च शब्दब्रह्मज्ञानाद्वैतानि चेत्यादयो ये ये वस्त्वंशाः परैरङ्गीक्रियन्ते, ते सर्वेऽपि सापेक्षाः सन्तः परमार्थसत्यतां प्रतिपद्यन्ते निरपेक्षास्त्वन्योन्येन निरस्यमाना नभोनलिनायन्त इत्यलं विस्तरेण । स्याद्वादस्य देशकः सम्यग्रवक्ता स्याद्वाददेशकस्तम् । अनेन च वचनातिशयमचकथत् । तदेवं चत्वारोऽत्रातिशयाः शास्त्रकृता साक्षादाचचक्षिरे । तेषां हेतुहेतुमद्भाव एवं भाव्यः-यत एव निःशेषदोषशत्रुजेता, तत एव सर्वज्ञः । यत एव सर्वज्ञस्तत एव सद्भूतार्थवादी । यत एव सद्भूतार्थवादी, तत एव त्रिभुवनाभ्यर्च्य इति । ટીકાનો ભાવાનુવાદ
સતું એટલે હંમેશાં વિદ્યમાન અથવા છાકિજ્ઞાનની અપેક્ષાએ પ્રશસ્ત એવું કેવલદર્શન (તથા ઉપલક્ષણથી) ઉપલબ્ધિ એટલે કે કેવલજ્ઞાન જેને છે તે સદ્ગદર્શન. (અર્થાતુ કેવલજ્ઞાનકેવલદર્શન વાળા.) અથવા (કેવલદર્શનના પૂર્વસમયે અવ્યભિચરિતપણે કેવલજ્ઞાન હોય છે.) તેથી પ્રશસ્ત છે દર્શન જેને તે કેવલદર્શન અને કેવલદર્શનના પૂર્વસમયે અવ્યભિચરિતપણે કેવલજ્ઞાન છે જેને તે સદર્શન. અર્થાત્ સદ્દર્શન પદથી સર્વજ્ઞ અને સર્વદર્શી એવા શ્રીવીર ५२मात्माने नभ२७।२४रीने. मारीत 'नत्वा' साथे संबंध ४२वो.)
આ “સદ્દર્શન' વિશેષણ દ્વારા શ્રીવર્ધમાનસ્વામી ભગવાનનો જ્ઞાનાતિશય સૂચિત थाय छे.