________________
षड्दर्शन समुनय भाग - १, श्लोक - ३२, नैयायिक दर्शन
બીજાવડે જાતિનો પ્રયોગ કરાતે છતે સમ્યગુ ઉત્તર જ આપવો જોઈએ, પણ બદલામાં જાતિથી ઉત્તરો આપવાવડે ખંડન ન કરવું જોઈએ. કારણ કે તે રીતે કરવાથી તો અસમંજસ (अव्यवस्था)नो प्रसंग आवे छे. ॥३१॥
अथ निग्रहस्थानमाह ।। હવે નિગ્રહસ્થાનના સ્વરૂપને ગ્રંથકારશ્રી કહે છે.
निग्रहस्थानमाख्यातं परो येन निगृह्यते ।
प्रतिज्ञाहानिसंन्यासविरोधादिविभेदतः ।।३२।। શ્લોકાર્થ જે પ્રતિજ્ઞાાનિ, પ્રતિજ્ઞાસંન્યાસ, પ્રતિજ્ઞાવિરોધાદિ વિશિષ્ટભેદથી પર (પ્રતિવાદિ-વિપક્ષ) નિગૃહીત કરાય તે પ્રતિજ્ઞાાનિઆદિ (બાવીસ) નિગ્રહસ્થાન કહેલ छ. ॥३२॥
व्याख्या-येन केनचित्प्रतिज्ञाहान्याधुपरोधेन परो विपक्षो निगृह्यते, परवादी वचननिग्रहे पात्यते तन्निग्रहस्थानम् । पराजयस्तस्य स्थानमाश्रयः कारणमित्यर्थः । आख्यातं कथितम् । कुतो नामभेदत इत्याह- प्रतिज्ञाहानीत्यादि' । हानिस्त्यागः, संन्यासोऽपह्नवं, विरोधो हेतोविरुद्धता, तेषां द्वन्द्वे हानिसंन्यासविरोधाः । ततः प्रतिज्ञाशब्देनेत्थं सम्बन्धः, प्रतिज्ञायाः पक्षस्य हानिसंन्यासविरोधाः प्रतिज्ञाहानिसंन्यासविरोधास्ते आदिर्येषां ते प्रतिज्ञाहानिसंन्यासविरोधादयः, आदिशब्देन शेषानपि भेदान्परामृशति, तेषां विभेदतो विशिष्टभेदतः, येन प्रतिज्ञाहान्यादिदूषणजालेन परो निगृह्यते, तन्निग्रहस्थानमित्यर्थः । निग्रहस्थानं च सामान्यतो द्विविधं, विप्रतिपत्तिरप्रतिपत्तिश्च । तत्र विप्रतिपत्तिः साधनाभासे साधनबुद्धिः दूषणाभासे च दूषणबुद्धिः । अप्रतिपत्तिस्तु साधनस्यादूषणं दूषणस्य चानुद्धरणम् । द्विधा हि वादी पराजीयते । यथा-कर्तव्यमप्रतिद्यमानो विपरीतं वा प्रतिपद्यमान इति विप्रतिपत्त्यप्रतिपत्तिभेदाय द्वाविंशतिर्निग्रहस्थानानि भवन्ति । तद्यथाप्रतिज्ञा हानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासः हे त्वन्तरं अर्थांतरं निरर्थकं ‘अविज्ञातार्थं 'अपार्थकं १०अप्राप्तकालं "न्यूनं १२अधिकं १३पुनरुक्तं
"अननुभाषणं १५अज्ञानं १६अप्रतिभा १"विक्षेपः “मतानुज्ञा पर्यनु"योज्योपेक्षणं निरनुयोज्यानुयोगः २१अपसिद्धान्तः हेत्वाभासाश्च ।। अत्राप्यननुभाषणमज्ञानमप्रतिभा विक्षेपः पर्यनुयोज्योपेक्षणमित्यप्रतिपत्तिप्रकाराः, शेषाश्च विप्रतिपत्तिभेदाः ।