________________
षड्दर्शन समुश्चय भाग - १, श्लोक - ३१, नैयायिक दर्शन
____२२७
नित्यसाधान्नित्य इति । अस्ति चास्य नित्येनाकाशादिना साधर्म्यममूर्तत्वमित्युद्भावनप्रकारभेद एवायमिति १७ । अविशेषापादनेन प्रत्यवस्थानमविशेषसमा जातिः । यदि शब्दघटयोरेको धर्मः कृतकत्वमिष्यते, तर्हि समानधर्मयोगात्तयोरविशेषे तद्वदेव सर्वपदार्थानामविशेषः प्रसज्यत इति १८ । उपपत्त्या प्रत्यवस्थानमुपपत्तिसमा जातिः । कृतकत्वोपपत्त्या शब्दस्यानित्यत्वं, तमुमूर्तत्वोपपत्त्या नित्यत्वमपि कस्मान्न भवतीति पक्षद्वयोपपत्त्यानध्यवसायपर्यवसानत्वं विवक्षितमित्युद्भावनप्रकारभेद एवायम् १९ । उपलब्ध्या प्रत्यवस्थानमुपलब्धिसमा जातिः । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्युक्ते प्रत्यवतिष्ठते । न खलु प्रयत्नानन्तरीयकत्वमनित्यत्वे साधनम् । साधनं हि तदुच्यते येन विना न साध्यमुपलभ्यते । उपलभ्यते च प्रयत्नानन्तरीयकत्वेन विनापि विद्युदादावनित्यत्वं, शब्देऽपि क्वचिद्वायुवेगभज्यमानवस्पत्यादिजन्ये तथैवेति २० । अनुपलब्ध्या प्रत्यवस्थानमनुपलब्धिसमा जातिः । तत्रैव प्रयत्नानन्तरीयकत्वे हेतावुपन्यस्ते सत्याह जातिवादी । न प्रयत्नानन्तरीयकः कार्यः शब्दः प्रागुधारणादस्त्येवासी, आवरणयोगात्तु नोपलभ्यते । आवरणानुपलम्भेऽप्यनुपलम्भान्नास्त्येवोश्यारणात्प्राक्शब्द इति चेत् न । अत्र हि यानुपलब्धिः सा स्वात्मनि वर्तते न वा । वर्तते चेत्तदा यत्रावरणेऽनुपलब्धिर्वर्तते, तस्यावरणस्य, यथानुपलम्भस्तथावरणानुपलब्धेरप्यनुपलम्भः स्यात् । आवरणानुपलब्धेश्चानुपलम्भादभावो भवेत् । तदभावे चावरणोपलब्धेर्भावो भवति । ततश्च मृदन्तरितमूलककीलादिवदावरणोपलब्धिकृतमेव शब्दस्य प्रागुयारणादग्रहणम् । अथानुपलब्धिः स्वात्मनि न वर्तते चेत्, तर्खनुपलब्धिः स्वरूपेणापि नास्ति । तथाप्यनुपलब्धेरभाव उपलब्धिरूपस्ततोऽपि शब्दस्य प्रागुधारणादप्यस्तित्वं स्यादिति । द्वेधापि प्रयत्नकार्यत्वाभावन्नित्यः शब्द इति २१ । ટીકાનો ભાવાનુવાદ: (१७) तुसमा ति : त्रागनी (भूत, भविष्य ३ वर्तमान मे १९1510नी) અનુત્પત્તિથી હેતુનું ખંડન કરવું તે પ૪હેતુસમા જાતિ કહેવાય છે. જેમકે “હેતુ છે, તો તે સાધ્યની ૫૪. ન્યાયસૂત્રકારે આ હેતુસમા જાતિને અહેતુસમા જાતિ કહેલ છે. બંનેનો ભાવ સમાન છે.
त्रैकाल्यासिद्धहेतोरहेतुसमः ।।५-१-१८।। अर्थात् ३५ बलम सिद्ध होवाथी मातुसमा लिने छे. (A) त्रैकाल्यानुपपत्त्या प्रत्यवस्थानमहेतुसमा जातिर्भवति ।। न्यायक० पृ. १९ ।।