________________
षड्दर्शन समुच्चय भाग - १, श्लोक - १०, बोद्धदर्शन
तदा परार्थमनुमानमिति । ‘लिङ्गिज्ञानं तु” इति । अत्र तुशब्दो विशेषणार्थ इदं विशिनष्टि । अत्र यत्त्रिरूपं लिङ्गं लिङ्गिनो गमकमुक्तं, तल्लिङ्गमनुपलब्धिस्वभावकार्यभेदात्त्रिधैव भवतीति । तत्रानुपलब्धिश्चतुर्धा वर्ण्यते मूलभेदापेक्षया । तद्यथा । विरुद्धोपलब्धिः, विरुद्धकार्योपलब्धिः, कारणानुपलब्धिः, स्वभावानुपलब्धिश्च । विरुद्धोपलब्धिर्यथा नात्र शीत स्पर्शोऽग्नेः । विरुद्धकार्योपलब्धिर्यथा नात्र शीतस्पर्शो धूमात् । कारणानुपलब्धियथा नात्र धूमोऽग्न्यभावात् । स्वभावानुपलब्धिर्यथा नात्र धूम उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः । शेषास्तु सप्ताप्यनुपलब्धयो धर्मबिन्दुप्रभृतिशास्त्रप्रतिपादिता एष्वेव चतुर्षु भेदेष्वन्तर्भवन्तीति प्रतिभेदरूपत्वान्नात्र पृथगभिहिताः । स्वभावहेतुर्यथा वृक्षोऽयं शिंशपात्वात् । कार्यहेतुर्यथाग्निरत्र धूमात् । एषु चानुपलब्ध्यादिषु त्रिषु हेतुषु तादात्म्यतदुत्पत्तिसंबन्धबलादविनाभावो विद्यते, आद्यान्त्ययोरनुपलब्ध्योः स्वभावहेतोश्च तादात्म्यभावात्, मध्ययोरनुपलब्ध्योः कार्यहेतोश्च तदुत्पत्तिसद्भावात् । अविनाभावश्च तादात्म्यतदुत्पत्तिभ्यामेव व्याप्तः । तादात्म्यतदुत्पत्ती चानुपलब्धिस्वभावकार्येष्वेव विद्येते, नान्यत्र । ततस्तादात्म्यतदुत्पत्तिप्रतिबन्धविकलानामनुपलब्धिस्वभावकार्यव्यतिरिक्तानामर्थानां सर्वेषां हेत्वाभासतैव प्रत्येतव्या । तेन संयोग्यादिका वैशेषिकादिकल्पिता तवो न भवन्ति, व्यभिचारस्य संभवात् । कारणात्कार्यानुमानं तु व्यभिचारित्वेनैव नाभ्युपगम्यते । यदपि रसतः समानसमयस्य रूपादेरनुमानं सौगतैरभ्युपगतं, यदपि समग्रेण हेतुना कार्योत्पादानुमानं च ते अपि स्वभावानुमानतयाभ्युपेते । तथाहिईदृशरूपान्तरोत्पादसमर्थः प्राक्तनो रूपक्षणः, ईदृशरसजनकत्वात्, पूर्वोपलब्धरूपवदिति रूपान्तरोत्पादरूपसामर्थ्यानुमानम् । योग्येयं प्रतिबन्धकविकला बीजादिसामग्री स्वकार्योत्पादने समग्रत्वात्, पूर्वदृष्टबीजादिसामग्रीवदिति योग्यतानुमानम् । अतः स्वभावहेतुप्रभवे एवैते न पुनः कारणात् कार्यानुमान इति ।। १० ।।
१२४
ટીકાનો ભાવાનુવાદ :
હવે અનુમાનનું લક્ષણ કહે છે...
પક્ષધર્મત્વાદિ ત્રણ સ્વભાવોથી અર્થાત્ ત્રણલિંગોથી પરોક્ષ એવી વસ્તુનું (લિંગિનું) જે જ્ઞાન થાય છે, તેને અનુમાન નામનું પ્રમાણ કહેવાય છે. અનુમાનશબ્દનો અર્થ આ પ્રમાણે છે - અનુ=પશ્ચાત્ અર્થાત્ લિંગગ્રહણની અનંતર પરોક્ષવસ્તુનું માન=જ્ઞાન થાય તે અનુમાન કહેવાય