________________
षड्दर्शन समुश्चय भाग - १, श्लोक - १०, बोद्धदर्शन
११५
प्रत्यक्ष कल्पनापोढमभ्रान्तं तत्र बुध्यताम् ।
त्रिरूपाल्लिङ्गतो लिङ्गिज्ञानं त्वनुमानसंज्ञितम् ।।१०।। શ્લોકાર્થ કલ્પનાપોઢ અર્થાત્ નિર્વિકલ્પક તથા ભ્રાન્તિરહિતજ્ઞાનને પ્રત્યક્ષ કહેવાય છે. તથા (સપક્ષસત્ત્વ, પક્ષધર્મત્ત્વ અને વિપક્ષાસત્ત્વ) આ ત્રણરૂપવાળા લિંગથી લિંગી (સાધ્ય)નું જ્ઞાન થાય તેનું નામ અનુમાન.
व्याख्या-तत्र तयोः प्रत्यक्षानुमानयोर्मध्ये प्रत्यक्षं बुध्यतां ज्ञायताम् । तत्र प्रतिगतमक्षमिन्द्रियं प्रत्यक्षम् । कीदृशम् । कल्पनापोढम् । शब्दसंसर्गवती प्रतीतिः कल्पना । कल्पना अपोढा अपेता यस्मात्तत् कल्पनापोढम् । ननु बहुव्रीहो निष्ठान्तं पूर्वं निपतति । ततोऽपोढकल्पनमिति स्यात् न वा ? आहिताग्न्यादिष्वति वा वचनात्, आहिताग्न्यादेश्चाकृतिगणत्वान्न पूर्वनिपातः । कल्पनया वापोढं रहितं कल्पनापोढम् । नामजात्यादिक ल्पनारहितमित्यर्थः । तत्र नामकल्पना यथा डित्थ इति । जातिकल्पना यथा गौरिति । आदिशब्दाद्गुणक्रियाद्रव्यपरिग्रहः । तत्र गुणकल्पना यथा शुक्ल इति । क्रियाकल्पना यथा पाचक इति । द्रव्यकल्पना यथा दण्डी भूस्थो वेति । आभिः कल्पनाभी रहितं, शब्दरहितस्वलक्षणजन्मत्वात्प्रत्यक्षस्य । उक्तं च “न ह्यर्थे शब्दाः सन्ति तदात्मानो वा, येन तस्मिन् प्रतिभासमाने प्रतिभासेरन्” [उद्धृतमिदम् - न्याय० प्र० वृ० पृ० ३५] इत्यादि । एतेन स्थिरस्थूलघटपटादिबाह्यवस्तुग्राहिणः सविकल्पकज्ञानस्य प्रत्यक्षतां निरस्यति, पुनः कीदृक्षं प्रत्यक्षम् अभ्रान्तम् “अतस्मिंस्तद्ग्रहो भ्रान्तिः" [ ] इति वचनात् । नासद्भूतवस्तुग्राहकं, किं तु यथावत्परस्परविविक्तक्षणक्षयिपरमाणुलक्षणस्वलक्षणपरिच्छेदकम् । अनेन निर्विकल्पकानां भ्रान्ततैमिरिकादिज्ञानानां प्रत्यक्षतां प्रतिक्षिपति । ટીકાનો ભાવાનુવાદ: પ્રત્યક્ષ અને અનુમાનમાં આ (નીચે જણાવેલ) પ્રત્યક્ષનું લક્ષણ જાણવું. અક્ષ ઇન્દ્રિયને પ્રતિગત=આશ્રિત જે જ્ઞાન થાય તે પ્રત્યક્ષ છે. પ્રશ્નઃ આ પ્રત્યક્ષ કેવા પ્રકારનું છે ? ઉત્તર : A “प्रत्यक्ष कल्पनापोढं नामजात्याद्यसंयुतम्" ।। प्र० समु० १/३ ।।
"तत्र प्रत्यक्ष कल्पनाऽपोढमभ्रान्तम् ।।न्याबि० १/४।। “प्रत्यक्ष कल्पनापोढमभ्रान्तमभिलापिनी प्रतीतिः कल्पना
क्लृप्तिहेतुत्वाद्यात्मिका न तु ।" [तत्त्व सं० श्लो० १२१४] B “अभिलापसंसर्गयोग्य, प्रतिभासा प्रतीतिः कल्पना" ।। न्यायबि० १/५।। c “अष्ट स० पृ० ११८ / सिद्धिवि० टी० पृ० ९० ।