________________
षड्दर्शन समुञ्चय भाग -१, श्लोक - ४, बोद्धदर्शन
धर्मबुद्धसङ्गरूपं रत्नत्रयम् । तारादेवी शासने विघ्ननाशिनी । विपश्यादयः सप्त बुद्धाः कण्ठे रेखात्रयाङ्किताः सर्वज्ञा देवाः । बुद्धस्तु सुगतो धर्मधातुरित्यादीनि [अभिधान० २/ १४६] । तन्नामानि । तेषां प्रासादा वर्तुला बुद्धांडकसंज्ञाः । भिक्षुसौगतशाक्यशौद्धोदनिसुगतताथागतशून्यवादिनामानो बौद्धाः । तेषां शौद्धोदनिधर्मोत्तरार्चटधर्मकीर्तिप्रज्ञाकरदिग्नागप्रमुखा ग्रन्थकारा गुरवः । अथ प्रस्तुतश्लोकोऽग्रतो व्याख्यायते । बौद्धमते बौद्धदर्शने सुगतो बुद्धो देवता देवः । किलेत्याप्तप्रवादे । कीदृशः सः । चतुर्णामित्यादि । आरादूराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः, पृषोदरादित्वाद्रूपनिष्पत्तिः । सतां साधूनां पदार्थानां वा यथासंभवं मुक्तिप्रापकत्वेन यथावस्थितवस्तुरूपचिन्तनेन च हितानि सत्यानि । अथवा सद्भ्यो हितानि सत्यानि । आर्याणां सत्यानि आर्यसत्यानि तेषामार्यसत्यानामित्यर्थः । चतुर्णां दुःखादीनां दुःखसमुदयमार्गनिरोधलक्षणानां तत्त्वानां प्ररूपको देशकः । तत्र दुःखं फलभूताः पञ्चोपादानस्कन्धा विज्ञानादयो वक्ष्यमाणाः, त एव तृष्णासहाया हेतुभूताः । समुदयः समुदेति स्कन्धपञ्चकलक्षणं दुःखमस्मादिति व्युत्पत्तितः । निरोधहेतुनैरात्म्याद्याकारश्चित्तविशेषो मार्गः । मार्गण अन्वेषणे, मार्यतेऽन्विष्यते याच्यते निरोधार्थिभिरिति चुरादिणिजन्तत्वेनाल्प्रत्ययः । निःक्लेशावस्था चित्तस्य निरोधः निरुध्यते रागद्वेषोपहतचित्तलक्षणः संसारोऽनेनेति करणे घञि, मुक्तिरित्यर्थः दुःखादीनामित्य-त्रादिशब्दोऽनेकार्थोऽपि व्यवस्थार्थो मन्तव्य; यदुक्तम्
__ “सामीप्ये च व्यवस्थायां प्रकारेऽवयवे तथा ।
चतुर्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् ।।१।।" तत्रादिशब्दः सामीप्ये यथा ग्रामादौ घोष इति, व्यवस्थायां यथा ब्राह्मणादयो वर्णा इति, प्रकारे यथा आढ्या देवदत्तादय इति देवदत्तादय इति देवदत्तसदृशा आढ्या इत्यर्थः, अवयवे यथा स्तम्भादयो गृहा इति । अत्र तु व्यवस्थार्थः संगच्छते । दुःखमादि प्रथमं येषां तानि तथा तेषामिति बहुव्रीहिः ।।४।। ટીકાનો ભાવાનુવાદ: ધર્મ, બુદ્ધ અને સંઘ બૌદ્ધદર્શનના ત્રણ રત્નો છે. (કે જેને બોદ્ધદર્શનની સફળતા માનવામાં આવે છે.) બૌદ્ધદર્શનઉપર આવતા વિદ્ગોનો નાશ કરનારી તારાદેવી છે. (આગળ