________________
पञ्चास्तिकायसमयसारस्य टीका ।
३५ विजानतः पश्यतश्च तदभावः । ततस्तद्धेतुकस्यानाकुलत्वलक्षणस्य परमार्थसुखस्य मोक्षेऽनुभूतिरचलिताऽस्ति । इत्येतद्भव्य एव भावतो विजानाति । ततस्स एव मोक्षमार्गार्हो नैतदभव्यः श्रद्धत्ते । ततः स मोक्षमार्गानह एव इति ॥ अतः कतिपये एव संसारिणो मोक्षमार्गार्हा न सर्व एवेति ॥
[१६६] दर्शनज्ञानचारित्राणां कथंचिद्वन्धहेतुत्वोपदर्शनेन जीवस्वभावे नियतचरितस्य साक्षाम्मोक्षहेतुताद्योतनमेतत् । अमूनि हि दर्शनज्ञानचारित्राणि कियन्मात्रयापि परसमयप्रवृत्त्या संवलितानि कृशानुसंवलितानीव घृतानि कथञ्चिद्विरुद्ध कारणत्वरूढेर्बन्धकारणान्यपि भवन्ति । यदा तु समस्तपरसमयप्रवृत्तिनिवृत्तिरूपया स्वसमयप्रवृत्त्या सङ्गच्छते, तदा निवृत्तकृशानुसंवलनानीव घृतानि विरुद्धकार्यकारणाभावाऽभावात्साक्षान्मोक्षकारणान्येव भवन्ति । ततः स्खसमयप्रवृत्तिनानो जीवस्वभावनियतचरितस्य साक्षान्मोक्षमार्गत्वमुपपन्नमिति ॥
[१६७ ] सूक्ष्मपरसमयस्वरूपाख्यानमेतत् । अर्हदादिषु भगवत्सु सिद्धिसाधनीभूतेषु भक्तिबलानुरञ्जिता चित्तवृत्तिरत्र शुद्धसंप्रयोगः । अथ खल्वज्ञानलवावेशाद्यदि यावज्ज्ञानवानपि ततः शुद्धसंप्रयोगान्मोक्षो भवतीत्यभिप्रायेण खिद्यमानस्तत्र प्रवर्तते तदा तावत्सोऽपि रागलवसद्भावात्परसमयरत इत्युपगीयते । अथ न किं पुनर्निरङ्कुशरागकलिकलङ्कितान्तरङ्गवृत्तिरितरो जन इति ॥
[१६८] उक्तशुद्धसंप्रयोगस्य कथञ्चिद्वन्धहेतुत्वेन मोक्षमार्गत्वनिरासोऽयम् । अहंदादिभक्तिसंपन्नः कथञ्चिच्छुद्धसंप्रयोगोऽपि सन् जीवो जीवद्रागलवत्वाच्छुभोपयोगतामजहन् , बहुशः पुण्यं बध्नाति; न खलु सकलकर्मक्षयमारभते । ततः सर्वत्र रागकणिकाऽपि परिहरणीया । परसमयप्रवृत्तिनिबन्धनत्वादिति ॥
[१६९ ] स्वसमयोपलम्भाभावस्य रागैकहेतुत्वद्योतनमेतत् । यस्य खलु रागरेणुकणिकाऽपि जीवति हृदये न नाम स समस्तसिद्धान्तसिन्धुपारगोऽपि निरुपरागशुद्धस्वरूपं स्वसमयं चेतयते । ततः स्वसमयसिध्यर्थं पिञ्जनलमतूलन्यासन्यायमभिदधताऽहंदादिविषयेऽपि क्रमेण रागरेणुरपसारणीय इति ॥
[१७० ] रागलवमूलदोषपरंपराख्यापनमेतत् । इह खल्वहंदादिभक्तिरपि न रागानुवृत्तिमन्तरेण भवति । रागाद्यनुवृत्तौ च सत्यां बुद्धिप्रसरमन्तरेणात्मा न तत्कथंचनाऽपि धारयितुं शक्येत । बुद्धिप्रसारे च सति शुभस्याशुभस्य वा कर्मणो न निरोधोऽस्ति । ततो रागकलिविलासमूल एवायमनर्थसन्तान इति ॥
[१७१ ] रागकलिनिःशेषीकरणस्य करणीयत्वाख्यानमेतत् । यतो रागाद्यनुवृत्तौ चित्तोड्रान्तिः, चित्तोद्धान्तौ कर्मबन्ध इत्युक्तम् । ततः खलु मोक्षार्थिना कर्मबन्धमूलचित्तोड्रान्तिमूलभूता रागाद्यनुवृत्तिरेकान्तेन निःशेषीकरणीया । निःशेषितायां तस्यां प्रसिद्धनैःसङ्गयनैमल्यशुद्धात्मद्रव्यविश्रान्तिरूपां पारमार्थिकी सिद्धभक्तिमनुबिभ्राणः प्रसिद्धः स्वसमयप्रवृत्तिर्भवति । तेन कारणेन स एव निःशेषितकर्मबन्धः सिद्धिमवाप्नोतीति ॥
[१७२ ] अर्हदादिभक्तिरूपपरसमयप्रवृत्तौ साक्षान्मोक्षहेतुत्वाभावेऽपि परम्परया मोक्षहेतुत्वसद्भावद्योतनमेतत् । यः खलु मोक्षार्थमुद्यतमनाः समुपार्जिताचिन्त्यसंयमतपोभारोऽप्यसंभावितपरमवैराग्यभूमिकाधिरोहणसमर्थप्रभुशक्तिः पिञ्जनलग्नतूलन्यासन्यायभयेन नवपदार्थैः सहाहदादिरुचिरूपां परसमयप्रवृत्तिं परित्यक्तुं, नोत्सहते; स खलु न नाम साक्षान्मोक्षं लभते । किन्तु सुरलोकादिक्लेशप्राप्तिरूपया परम्परया तैमवाप्नोतीति ॥
१ तन्तिलग्नकर्पासांशवत् । २ मोक्षम्. ।