SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ पश्चास्तिकायसमयसारस्य टीका । [१५३ ] द्रव्यमोक्षस्वरूपाख्यानमेतत् । अथ खलु भगवतः केवलिनो भावमोक्षे सति प्रसिद्धपरमसंवरस्योत्तरकर्मसन्ततौ निरुद्धायां परमनिर्जराकारणध्यानप्रसिद्धौ सत्यां पूर्वकर्मसंततौ कदाचित्स्वभावेनैव कदाचित्समुद्धतविधानेनायुःकर्मसमभूतः स्थित्यामायुःकर्मानुसारेणैव निर्जीयमाणायामपुनर्भवाय तद्भवत्यागसमये वेदनीयायुर्नामगोत्ररूपाणां जीवेन सहात्यन्तविश्लेषः कर्मपुद्गलानां द्रव्यमोक्षः॥ इति मोक्षपदार्थव्याख्यानं समाप्तम् । समाप्तं च मोक्षमार्गावयवरूपसम्यग्दर्शनज्ञानविषयभूतनवपदार्थव्याख्यानम् ॥ __ अथ मोक्षमार्गप्रपञ्चसूचिका चूलिका । [१५४ ] मोक्षस्वरूपाख्यानमेतत् । जीवस्वभावं नियतं चरितं मोक्षमार्गः । जीवस्वभावो हि ज्ञानदर्शने अनन्यमयत्वात् । अनन्यमयत्वं च तयोर्विशेषसामान्यचैतन्यस्वभावजीवनिवृत्तत्वात् । अथ तयोर्जीवस्वरूपभूतयोनिदर्शनयोर्यन्नियतमवस्थितमुत्पादव्ययध्रौव्यरूपवृत्तिमयमस्तित्वं रागादिपरिणत्यभावादनिन्दितं तच्चरितं, तदेव मोक्षमार्ग इति । द्विविधं हि किल संसारिषु चरितं । स्वचरितं परचरितं च । स्वसमयपरसमयावित्यर्थः । तत्र स्वभावावस्थितास्तित्वस्वरूपं स्वचरितम् । परभावावस्थितास्तित्वस्वरूपं परचरितम् । तत्र यत्स्वभावावस्थितास्तित्वरूपं परभावावस्थितास्तित्वव्यावृत्तत्वेनात्यन्तमनिन्दितम्, तदत्र साक्षान्मोक्षमार्गत्वेनावधारणीयमिति ॥ [ १५५ ] स्वसमयपरसमयोपादानव्युदासपुरस्सरकर्मक्षयद्वारेण जीवस्वभावनियतचरितस्य मोक्षभार्गत्वद्योतनमेतत् । संसारिणो हि जीवस्य ज्ञानदर्शनावस्थितत्वात् स्वभावनियतस्याप्यनादिमोहनीयोदयानुवृत्तिरूपत्वेनोपरक्तोपयोगस्य सतः समुपात्तभावस्वरूप्यत्वादनियतगुणपर्यायत्वं परसमयः । परचरितमिति यावत् । तस्यैवानादिमोहनीयोदयानुवृत्तिपरत्वमपास्य अत्यन्तशुद्धोपयोगस्य संतः समुपात्तभावैक्यरूप्यत्वान्नियतगुणपर्यायत्वं स्वसमयः । स्वचरितमिति यावत् । अथ खलु यदि कथञ्चनोद्भिन्नसम्यग्ज्ञानज्योतिर्जीवः परसमयं व्युदस्य, स्वसमयमुपादत्ते; तदा कर्मबन्धादवश्यं भ्रश्यति । यतो हि जीवस्वभावनियतं चरितं मोक्षमार्ग इति ॥ [१५६] परचरितप्रवृत्तस्वरूपाख्यानमतेत् । यो हि मोहनीयोदयानुवृत्तिवशाद्रज्यमानोपयोगः सन् , परद्रव्ये शुभमशुभं वा भावमादधाति स स्वकचरित्रभ्रष्टः परचरित्रचर इति उपगीयते । यतो हि स्वद्रव्ये शुद्धोपयोगवृत्तिः स्वचरितं । परद्रव्ये सोपरागोपयोगवृत्तिः परचरितमिति ॥ [१५७ ] परचरितप्रवृत्तेर्बन्धहेतुत्वेन मोक्षमार्गत्वनिषेधनमेतत् । इह किल शुभोपरक्तो भावः पुण्यास्रवः । अशुभोपरक्तः पापास्रव इति । तत्र पुण्यं पापं वा येन भावेनास्रवति यस्य जीवस्य यदि से भावो भवति स जीवस्तदा तेन परचरित इति प्ररूप्यते । ततः परचरितप्रवृत्तिर्बन्धमार्ग एव न मोक्षमार्गः । [१५८] स्वचरितप्रवृत्तस्वरूपाख्यानमेतत् । यः खलु निरुपरागोपयोगत्वात्सर्वसङ्गमुक्तः, परद्रव्यव्यावृत्तोपयोगत्वादनन्यमनाः आत्मानं स्वभावेन ज्ञानदर्शनरूपेण जानाति, पश्यति, नियतमव १ मोक्षाय. २ तस्य मनुष्यभवस्य त्यागसमये परित्यागसमये. ३ विस्तारकथिका. ४ उपरक्तोपयोगरूपेण उत्पन्नस्य. ५ व्यवहारदर्शनज्ञानचारित्राचरकः. ६ यदा काले. ७ तदा तस्य जीवस्य पुण्यपापमयः. ८ यः खल पुरुषः.
SR No.022407
Book TitlePanchastikay Samaysar
Original Sutra AuthorKundkundacharya
AuthorPannalal Bakliwal
PublisherParamshrut Prabhavak Mandal
Publication Year1905
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy