________________
२३
पञ्चास्तिकायसमयसारस्य टीका। कर्मनोकर्मोपचयरूपाः पुद्गला इति । ते पुद्गलकरणाः । तदभावान्निःक्रियत्वं सिद्धानां । पुद्गलानां सक्रियत्वस्य बहिरङ्गसाधनं परिणामनिवर्तकः काल इति ते कालकरणाः । नच कर्मादीनामिव कालस्याभावः । ततो न सिद्धानामिव निष्क्रियत्वं पुद्गलानामिति ॥
[९९] मूर्तामूर्तलक्षणाख्यानमेतत् । इह हि जीवैः स्पर्शनरसनघ्राणचक्षुभिरिन्द्रियैस्तद्विषयभूताः स्पर्शरसगन्धवर्णस्वभावा अर्था गृह्यन्ते । श्रोत्रेन्द्रियेण तु तँ एव तद्विषयहेतुभूतशब्दाकारपरिणता गृह्यन्ते । ते कदाचित्स्थूलस्कन्धत्वमापन्नाः कदाचित्सूक्ष्मत्वमापन्नाः कदाचित्परमाणुत्वमापन्नाः इन्द्रियग्रहणयोग्यतासद्भावाद् गृह्यमाणा अगृह्यमाणा वा मूर्ता इत्युच्यन्ते । शेषमितरत् समस्तमप्यर्थसंजातं स्पर्शरसगन्धवर्णाभावस्वभावमिन्द्रियग्रहणयोग्यताया अभावादमूर्तमित्युच्यते । चित्तग्रहणयोग्यतासद्भावभाग्भवति तदुभयमपि । चित्तं बनियतविषयमप्राप्यकारि मतिश्रुतज्ञानसाधनीभूतं मूर्तममूर्त च समाददातीति ॥
इति चूलिका समाप्ता।
अथ कालद्रव्यव्याख्यानम् । [१०० ] व्यवहारकालस्य निश्चयकालस्य च स्वरूपाख्यानमेतत् । तत्र क्रमानुपाती समयाख्यः पर्यायो व्यवहारकालः । तदाधारभूतं द्रव्यं निश्चयकालः । तत्र व्यवहारकालो निश्चयकालपर्यायरूपोऽपि जीवपुद्गलानां परिणामेनावच्छिद्यमानत्वात्तत्परिणामभव इत्युपगीयते । जीवपुद्गलानां परिणामस्तु बहिरङ्गनिमित्तभूतद्रव्यकालसद्भावे सति संभूतत्वाद्रव्यकालसंभूत इत्यभिधीयते । तत्रे, तात्पर्य । व्यवहारकालो जीवपुद्गलपरिणामेन निश्चीयते, निश्चयकालस्तु तत्परिणामान्यथानुपपत्त्येति । तत्र क्षणभङ्गी व्यवहारकालः । सूक्ष्मपर्यायस तावन्मात्रत्वात् । नित्यो निश्चयकालः खगुणपर्यायाधारद्रव्यस्वेन सर्वदैवाऽविनश्वरत्वादिति ॥
[१०१ ] नित्यक्षणिकत्वेन कालविभागख्यापनमेतत् । यो हि द्रव्यविशेषः 'अयं कालः, अयं कालः' इति सदा व्यपदिश्यते स खलु स्वस्य सद्भावैमावेदयन् भवति नित्यः । यस्तु पुनरुत्पन्नमात्र एव प्रध्वस्यते स खलु तस्यैव द्रव्यविशेषस्य समयाख्यः पर्याय इति । से तूत्सङ्गितक्षणभङ्गोऽप्युपदर्शितखसंतानो नयबलाद्दीर्घान्तरस्थाय्युपगीयमानो न दुष्यति । ततो न खल्वाऽऽवलिकापल्योपमसागरोपमादिव्यवहारो विप्रतिषिध्यते । तदत्र निश्चयकालो नित्यः द्रव्यरूपत्वात्। व्यवहारकालः क्षणिकः पर्यायरूपत्वादिति ॥
१ जीवाः. २ पुद्गलकरणाभावात् . ३ निष्पादकः. ४ अत्र यथा शुद्धात्माऽनुभूतिबलेन कर्मपुद्गलानामभावात्सिद्धानां निष्क्रियत्वं भवति न तथा पुद्गलानां । कस्मात्कालस्यैव सर्वत्रैव विद्यमानखादित्यर्थः. ५ कर्तृभूतैः. ६ करणभूतैः. ७ अर्थाः ८ श्रोत्रेन्द्रियविषयभूतशब्दाकारपरिणताः. ९ विषयाः अर्थाः. १० मूर्तीमूर्त. ११ यथा स्पर्शनेन्द्रियस्य स्पर्शः, रसनेन्द्रियस्य रसः, घ्राणेन्द्रियस्य गन्धश्चक्षुरिन्द्रियस्य रूपं, कर्णेन्द्रियस्य शब्दः विषयस्ता चित्तस्य मनसः न नियतविषयोऽत एव चित्तमनियतविषयात्मकम् . १२ यथा स्पर्शरसघ्राणकर्णेन्द्रियाणि प्राप्यकारीणि तथा चित्तं प्राप्यकारि न, चक्षुरिन्द्रियवत्. १३ निश्चीयते. १४ समयादिरूपस्य. १५ नित्यत्वेन क्षणिकत्वेन नित्यो निश्चयकालः, क्षणिको व्यवहारकालः. १६ खकीयस्य. १७ अस्तित्वम् . १८ कथयन्सन्नित्यो भवति । अत्र दृष्टान्तः । यथा-यो हि अक्षरद्वयवाच्यो सिंहशब्दः स खस्य सिंहनाम्नः तिरश्चो सद्भावमस्तित्वमावेदयन् नित्यो भवति. १९ व्यवहारकाल:. २० समयावलिपल्यादिसंतानः, वा क्रमेण समयोत्तरसंतानः