________________
पञ्चास्तिकायसमयसारस्य टीका ।
१९
तदर्धा स्कन्धप्रदेशो नाम पर्यायः । एवं भेदवशायणुकस्कन्धादनन्ताः स्कन्धप्रदेशपर्यायाः। निर्विभागैकप्रदेशः स्कन्धस्याभेदपरमाणुरेकः । पुनरपि द्वयोः परमाण्वोः संघातादेको द्वयणुकस्कन्धपर्यायः । एवं संघातवशादनन्ताः स्कन्धपर्यायाः । एवं भेदसंघाताभ्यामप्यनन्ता भवन्तीति ॥
[७६] स्कन्धानां पुद्गलव्यवहारसमर्थनमेतत् । स्पर्शरसवर्णगन्धगुणविशेषैः षट्स्थानपतितवृद्धिहानिभिः पूरणगलनधर्मत्वात् स्कन्धव्यक्त्याविर्भावतिरोभावाभ्यामपि च पूरणगलनोपपत्तेः परभाणवः पुद्गला इति निश्चीयन्ते । स्कन्धास्त्वनेकपुद्गलमयैकपर्यायत्वेन पुद्गलेभ्योऽनन्यत्वात्पुद्गला इति व्यवह्रियन्ते । तथैव च बादरसूक्ष्मत्वपरिणामविकल्पैः षट्प्रकारतामापद्य त्रैलोक्यरूपेण निष्पद्य स्थितवन्त इति । तथाहि-बादरबादराः, बादराः, बादरसूक्ष्माः, सूक्ष्मबादराः, सूक्ष्माः, सूक्ष्मसूक्ष्माः इति । तत्र छिन्नाः स्वयं संधानासमर्थाः काष्ठपाषाणादयो बादरबादराः । छिन्नाः स्वयं संधानसमर्थाः क्षीरघृततैलतोयरसप्रभृतयो बादराः । स्थूलोपलम्भा अपि छेत्तुं भेत्तुमादातुमशक्या छायाऽऽतपतमोज्योत्स्नादयो बादरसूक्ष्माः । सूक्ष्मत्वेऽपि स्थूलोपलम्भाः स्पर्शरसगंधवर्णशब्दाः सूक्ष्मबादराः । सूक्ष्मत्वेऽपि हि करणानुपलभ्याः कर्मवर्गणादयः सूक्ष्माः । अत्यन्तसूक्ष्माः कर्मवर्गणाभ्योऽधो द्वयणुकस्कन्धपर्यन्ताः सूक्ष्मसूक्ष्मा इति ॥
[७७ ] परमाणुव्याख्येयम् । उक्तानां स्कन्धपर्यायाणां योऽन्त्यो भेदः स परमाणुः। स तु पुनर्विभागाभावादविभागी। निर्विभागैकप्रदेशत्वादेकः । मूर्तद्रव्यत्वेन सदाप्यविनश्वरत्वान्नित्यः । अनादिनिधनरूपादिपरिणामोत्पन्नत्वान्मूर्तिभवः । रूपादिपरिणामोत्पन्नत्वेऽपि शब्दस्य परमाणुगुणत्वाभावात्पुद्गलस्कन्धपर्यायत्वेन वक्ष्यमाणत्वाचाशब्दो निश्चीयत इति ॥
[७८ ] परमाणूनां जात्यन्तरत्वनिरासोऽयम् । परमाणोर्हि मूर्तत्वनिबन्धनभूताः स्पर्शरसगन्धवर्णा आदेशमात्रेणैव भिद्यन्ते । वस्तुतस्तु यथा तस्य स एव प्रदेश आदिः, स एव मध्यः स एवान्तः इति । एवं द्रव्यगुणयोरविभक्तप्रदेशत्वात् य एव परमाणोः प्रदेशः स एव स्पर्शस्य, स एव गन्धस्य, स एव रूपस्येति । ततः क्वचित्परमाणौ गन्धगुणे, क्वचित् गन्धरसगुणयोः, क्वचित् गन्धरसरूपगुणेषु अपकृष्यमाणेषु तदविभक्तप्रदेशः परमाणुरेव विनश्यतीति । न तदपकर्षो र्युक्तः । ततः पृथिव्यप्तेजोवायुरूपस्य धातुचतुष्कस्यैक एव परमाणुः कारणं । परिणामवशात् विचित्रो हि परमाणोः परिणामगुण: क्वचित्कस्यचिद्गुणस्य व्यक्ताव्यक्तत्वेन विचित्रां परिणतिमादधाति । यथा च तस्य परिणामवशादव्यक्तो गन्धादिगुणोऽस्तीति प्रतिज्ञायते न तथा शब्दोऽप्यव्यक्तोऽस्तीति ज्ञातुं शक्यते । तस्यैकप्रदेशस्यानेकप्रदेशात्मकेन शब्देन सबकत्वविरोधादिति ॥
[७९] शब्दस्य पुद्गलसंघपर्यायत्वख्यापनमेतत् । इह हि बाह्यश्रवणेन्द्रियावलम्बितो भावेन्द्रियपरिम्छेबो ध्वनिः शब्दः। स खलु खरूपेणानन्तपरमाणूनामेकस्कन्धो नाम पर्यायः । बहिरङ्गसाधनीभूतमहास्कन्धेभ्यः तथाविधपरिणामेन समुत्पद्यमानत्वात् स्कन्धप्रभवः । यतो हि परस्पराभिहतेषु महास्कन्धेषु शब्दः समुपजायते । किंच स्वभावनिर्वृत्ताभिरेवानन्तपरमाणुमयीभिः शब्दयोग्यवर्गणाभि
१ अस्तित्वप्रमेयत्वादयस्तु सामान्यगुणास्सर्वेषां द्रव्याणां मध्ये साधारणरूपेण विद्यन्ते । पुनः स्पर्शरसगन्धवर्णगुणास्तु पुद्गलद्रव्ये एव विद्यन्ते। अत एव गुणविशेषाः कथ्यन्ते. २ वर्णगन्धरसस्पर्शः पूरणं गलनं कुर्वन्ति स्कन्धवत्तस्मात्पुद्गला परमाणवः. ३ द्विप्रदेशादिस्कन्धानां पुद्गलखग्रहणं प्रदेशपूरणगलनरूपत्वात्. ४ पृथक् क्रियन्ते. ५ पूर्वोक्तेषु एतेषु गुणेषु अपकृष्यमाणेषु गौणतां प्राप्तेषु सत्सु. ६ तस्य परमाणोरपकर्षों विनाशो न युक्तः. ७ परमाणोः. ८ शब्दप-येण. ९ अन्योन्यसंघटितेषु.