SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ अधिकारः ९] समयसारः । पुरुसिच्छियाहिलासी इच्छीकम्मं च पुरिस महिलसइ । एसा आयरियपरंपरागया एरिसी दु सुई ॥ ३३६ ॥ तह्माण कोवि जीवो अवभचारी उ अह्म उवएसे । जमा कम्मं चैव हि कम्मं अहिलसइ इदि भणियं ॥ ३३७ ॥ जह्मा घाइ परं परेण घाइज्जए य सा पयडी । एएणच्छेण किर भण्णइ परघायणामित्ति ॥ ३३८ ॥ ताण कोवि जीवो वघायओ अस्थि अह्म उवदेसे । जह्मा कम्मं चैव हि कम्मं घाएदि इदि भणियं ॥ ३३९ ॥ ४३७ तृतीयगाथा गता । यस्मादेवं भणितः कर्मैव करोति कर्मैव ददाति कर्मैव हरति यत्किंचिच्छुभाशुभं तस्मादेकांतेन सर्वे जीवा अकारकाः प्राप्ताः, ततश्च कर्माभात्रः कर्माभावे संसाराभावः स च प्रत्यक्षविरोधः–इति कर्मैकांतकर्तृत्वदूषणमुख्यत्वेन सूत्रचतुष्टयं गतं । कर्मैव करोत्येकांतेनेति पूर्वोक्तमर्थं श्रीकुंदकुंदाचार्यदेवा: सांख्यमतसंवादं दर्शयित्वा पुनरपि समर्थयंति । वयं ब्रूमो द्वेषेणैव न, भवदीयमतेऽपि भणितमास्ते पुंवेदाख्यं कर्म कर्तृ स्त्रीवेदकर्माभिलाषं करोति, स्त्रीवेदाख्यं कर्म पुंवेदकर्माभिलषत्येकांतेन न च जीवः । एवमाचार्यपरंपरायाः समागता श्रुतिरीदृशी । श्रुतिः कोऽर्थः ? आगमो भवतां सांख्यानामिति प्रथमगाथा गता । तथा सति किं दूषणं चेति ? एवं न कोपि जीवोऽस्त्यब्रह्मचारी युष्माकमुपदेशे किंतु यथा शुद्ध निश्चयेन सर्वे जीवा ब्रह्मचारिणो भवंति तथैकांतेनाशुद्धनिश्चयेनापि ब्रह्मचारिण एव यस्मात्पुंवेदाख्यं कर्म स्त्रीवेदाख्यं कर्माभिलषति न च जीव इत्युक्तं पूर्वं स च प्रत्यक्षविरोधः । इत्यब्रह्मकथनरूपेण गाथाद्वयं गतं । यस्मात्कारणात् परं कर्मस्वरूपं प्रकृतिः कर्त्री हंति परेण कर्मणा सा प्रकृतिरपि हन्यते न च जीवः । एतेनार्थेन किल जैनमते परघातनामकर्मेति भण्य । परंतु जैनमते जीवो हिंसाभावेन परिणमति परघातनाम सहकारिकारणं भवति इति नास्ति विरोध इति प्रथमगाथा गता । तस्मात्किं दूषणं ? शुद्धपरिणामिकपरमभावग्राहकेण शुद्ध - द्रव्यार्थिकनयेन तावदपरिणामी हिंसापरिणामरहितो जीवो जैनागमे कथितः, कथं ? इति चेत्, सव्वे सुद्धा हु सुद्धणया इति वचनात् व्यवहारेण तु परिणामीति । भवदीय हुए-जीव कर्ता नहीं है । [ एषा आचार्य परंपरागता ईदृशी तु श्रुतिः ] यह आचार्योंकी परिपाटी से आई ऐसी श्रुति है कि [ पुरुषः ] पुरुषवेदकर्म तो [ रूपभिलाषी ] स्त्रीका अभिलाषी है [ च ] और [ स्त्रीकर्म ] स्त्रीवदेनामा कर्म [ पुरुषं अभिलषति ] पुरुषको चाहता है । [ तस्मात् ] इसलिये [ कोपि जीवः ] कोई भी जीव [ अब्रह्मचारी न ] अब्रह्मचारी नहीं है [ अस्माकं तु उपदेशे ] हमारे उपदेशमें तो ऐसा है [ यस्मात् ] कि [ कर्म चैव हि ] कर्म ही [ कर्म अभिलषति इति ] कर्मको चाहता है [ इति भणितं ] ऐसा कहा है ।
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy