________________
रायचन्द्रजैनशास्त्रमालायाम् ।
अरसमरूपमगंधमव्यक्तं चेतनागुणमशब्दं । जानीहि अलिंगग्रहणं जीवमनिर्दिष्टसंस्थानं ॥ ४९ ॥
यः खलु पुद्गलद्रव्यादन्यत्वेनाविद्यमानरसगुणत्वात् पुद्गलद्रव्यगुणेभ्यो भिन्नत्वेन स्वयमरसगुणत्वात् परमार्थतः पुद्गलद्रव्यस्वामित्वाभावात् द्रव्येंद्रियावष्टंभेनारसनात् स्वभावतः क्षायोपशमिकभावाद्भावेंद्रियावलंबे नारसनात्, सकलसाधारणैकसंवेदनपरिणामस्वभावत्वात्केवलरसवेदनापरिणामापन्नत्वेनारसनात्, सकलज्ञेयज्ञायकतादात्म्यस्य निषेधाद्रसपरिच्छेदपरिणतत्वेपि स्वयं रसरूपेणापरिणमनाच्चारसः । तथा पुद्गलद्रव्यादन्यत्वेनाविद्यमानरूपगुणत्वात् पुद्गलद्रव्यगुणेभ्यो भिन्नत्वेन स्वयमरूपगुणत्वात् परमार्थतः पुद्गलद्रव्यस्खामित्वाभावात् द्रव्येंद्रियावष्टंभेनारूपणात्, स्वभावतः क्षायोपशमिकभावाभावाद्भावेंद्रियांवलंबेनारूपणात्सकलसाधारणैक संवेदन परिणामस्वभावत्वात्केवल रूपवेदनापरिणामापन्नत्वे - प्रथमोत्तराधिकारो व्याख्यातः । अथानंतरं वर्णरसादिपुद्गलखरूपरहितोऽनंतज्ञानादिगुणस्वरूपश्च शुद्धजीव एव उपादेय इति भावना मुख्यतया द्वादशगाथापर्यंतं व्याख्यानं करोति । तत्र द्वादशगाथासु मध्ये परमसामायिकभावनापरिणताभेदरत्नत्रयलक्षणनिर्विकल्पसमाधिसमुत्पन्नपरमानंदसुखसमरसीभावपरिणतशुद्धजीव एवोपादेय इति मुख्यत्वेन अरसमरूव इत्यादिसूत्रगाधैका । अथाभ्यंतरे रागादयो बहिरंगे वर्णादयश्च शुद्धजीवस्वरूपं न भवतीति तस्यैव गाथासूत्रस्य विशेषविवरणार्थं जीवस्स णत्थि वण्णो इत्यादिसूत्रष्टुं । ततः परत एव रागादयो वर्णादयश्च व्यवहारेण संति शुद्धनिश्चयनयेन न संतीति परस्परसापेक्षनयद्वयविवरणार्थं ववहारेण दु इत्यादि सूत्रमेकं । तदनंतरमेतेषां रागादीनां व्यवहारनयेनैव जीवेन सह क्षीरनीरवत्संबंधोन च निश्चयनयेनेति समर्थनरूपेण एदंहि य संबंधी इत्यादि सूत्रमेकं । ततश्च तस्यैव व्यवहा - रनयस्य पुनरपि व्यक्तार्थं दृष्टांतदाष्टतसमर्थनरूपेण पंथे मुस्संतं इत्यादि गाथात्रयं । इति द्वितीयस्थले समुदायपातनिका । तद्यथा — अथ यदि निश्चयेन रागादिरूपो जीवो न भवति तर्हि कथंभूतः शुद्धजीव उपादेयस्वरूप इत्यत्राह; — अरसमरूवमगंधं अव्वत्तं चेदणागुणमसद्दं निश्चयनयेन रसरूपगंधस्पर्शशब्दरहितं मनोगतकामक्रोधादिविकल्पविषयरहितत्वेनाव्यक्तं सूक्ष्मं । पुनरपि किं विशिष्टं । शुद्धचेतनागुणं । पुनश्च किं रूपं । जाणमलिंगग्गहणं जीवमणिद्दिसंठाणं निश्चयनयेन स्वसंवेदनज्ञानविषयत्वादलिंगग्रहणं समचतुरस्राटंकोत्कीर्ण परमार्थ स्वरूप जीव कैसा है उसका क्या लक्षण है ? इस प्रश्नका उत्तर कहते हैं;–हे भव्य तू [ जीवं ] जीवको [ जानीहि ] ऐसा जान कि वह [अरसं] रसरहित है [ अरूपं ] रूपरहित है [ अगंधं ] गंधरहित है [ अव्यक्तं ] इंद्रियों के गोचर [ व्यक्त ] नहीं हैं [ चेतनागुणं ] जिसके चेतना गुण है [ अशब्द ] शब्दरहित है [ अलिंगग्रहणं ] किसी चिन्हकर जिसका ग्रहण नहीं होता [ अनिर्दिष्टसंस्थानं ] जिसका आकार कुछ कहने में नहीं आता - ऐसा जीव जानना ॥
१०