SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सरः] द्रव्यसाधनम् 29 सर्वार्थसिद्धिः * अतिमन्दः। आनन्ददायिनी अतिमन्द इति-बौद्धसमयप्रसिद्धसत्वक्षाणकत्वव्याप्तिभङ्गप्रसङ्गात् तेनैव न्यायेन सर्ववस्तुस्थायित्वस्यापि प्रसंगादिति भावः । भावप्रकाशः ___ इति नित्यतत्वाभ्युपगमाद्यर्थोदाहृतबुद्धवाक्यमाभासोपपत्तिमूलमिति सुव्यक्तं इति ; एकं वस्तु नित्यमभ्युपगच्छतः क्षणिकत्वसाधकसत्वानुमानं विरुद्धं स्यादिति च आचार्यसूक्तिरिह भाव्या। अत एव 'अस्ति सत्व उपपादकः' इति 'भारं वो भिक्षवो देशयिष्यामि भारादानं भारनिक्षेपं भारहारं च । तत्र भारं पञ्चोपादानस्कन्धाः । भारादानं तृप्तिः । भारनिक्षेपो मोक्षः । भारहारः पुद्गलाः । इति । एवं भारहारः कतमः पुद्गलः ? योऽसावायुष्मन् एवं नामा एवंजातिः एवमाहारः एवं सुखदुःखं प्रति संवेदी एवंदीर्घायुः' इति । 'रूपं भदन्त नाहं, वेदनासंज्ञासंस्कारो विज्ञानं भदन्त नाहं, एवमेतद्भिक्षो रूपं न त्वं, वेदनासंज्ञासंस्कारो विज्ञानं नं त्वं'। इत्यादि बुद्धोपदेशवाक्यानां तत्वसंग्रहे आगमार्थविरोधे तु पराक्रान्तं मनीषिभिः नास्तिक्यपरिहारार्थं चित्रा वाचो दयावतः । समुदायादिचित्तेन भारहारादिदेशना विशेषप्रतिषेधश्च तद्दष्टीन् प्रति राजते ॥ इति शान्तरक्षितेन नित्यात्मतत्वबोधतात्पर्यकत्वाभावोक्तिस्संगच्छते । *' अतिमन्द इति- एतेन- " कामेऽष्टद्रव्यकोऽणुरशब्दः । रूपधातुस्वरूपमुक्तं-कामे-कामधातौ। अष्टद्रव्यकोऽणुः-रूप
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy