________________
24
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
ना
सर्वार्थसिद्धिः रूपादेराश्रयाभावात् । रूपादितया विकल्प्यमानस्यैकस्यैव वा सत्त्वादिति पक्षद्वयमेकेनैव प्रतिक्षिपति-एकार्थेति । एवमाहु
आनन्ददायिनी वात्सापुत्राः अन्ये च । तत्र वात्सीपुत्राः-रूपरसगन्धस्पर्शशब्दपञ्चकव्यतिरेकेण धर्मी नास्ति । ते च चक्षुराधेकैकेन्द्रियग्राह्याः। त एव समुदिताः पृथिवीत्वेन एकैकहासेन जलादित्वेन व्यवह्रियन्त इति वदन्ति । अन्ये वैभाषिकाः-शब्दस्तावन्न तत्वान्तरं । अपि तु रूपादिष्वेव केचन शब्दात्मानः इति वदन्ति । अपरे वैभाषिका: सौत्रान्तिकैकदेशिनश्च एकस्य रूपादेः शब्दात्मकत्वे श्रोत्रग्राह्यत्वं चक्षुाह्यत्वं चेति ग्राहकभेदाधीनभेदव्यवहार आवश्यकः । नच केचन रूपादयः श्रोत्रग्राह्याः शब्दात्मानः ; तथा सति सर्वेषां रूपाद्यन्यतमत्वप्रसङ्गेन चत्वार इत्यस्याभावप्रङ्गात् । नच पञ्चाप्यङ्गीकार्याः । तथा सत्यपि ग्राहकभेदं विना निर्वाहासंभवात्तदावश्यकत्वे दर्पणकृपाणादिव्यञ्जकभेदाद्यथा मुखं नीलत्वदीर्घत्वारोपवद्भासते तथा धर्येव रूपरसादिरूपेण भासते इति धर्मा न सन्ति धर्येक एवेत्याहुः ॥ सौत्रान्तिकमते धर्मिणोऽनुमेयत्वेऽपि इन्द्रियजन्यवृत्तौ तदाकारार्पणात् ग्राहकभेदेन तद्भेद इत्यवगन्तव्यम् । 'योगाचारस्य तु बुद्धिव्यतिरेकेण किमपि नास्तीति मतं । माध्यमिकस्य तु सर्व शून्यमिति मतम् ॥ तत्र वैभाषिकसौत्रान्तिकमतद्वयमनुवदति-रूपादेरिति । निराधाराः धर्मा इत्यर्थः । रूपादितयेति धर्येक एवेति पक्षः । रूपत्वेन रसत्वेन च विकल्प्यमानस्य गृह्यमाणस्येत्यर्थः । एवमाहुरिति
1 योगाचारमाध्यमिकमतयोरनुवादः क. ख. पुस्तकयोर्न दृश्यते ।