SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 22 सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः नित्यभूतिस्त्रिगुणसमधिका सत्वयुक्ता तथैव ज्ञातुज्ञेयावभासो मतिरिति कथितं संग्रहाद्द्रव्यलक्ष्म॥७ सर्वार्थसिद्धिः त्रिगुणसमधिका त्रिगुणद्रव्यादन्या । सत्वयुक्ता सत्वाख्यगुणविशेषवती । त्रिगुणान्यत्वं कालादेरप्यस्तीति तद्व्यवच्छेदोऽनेन कृतः । एतावन्मात्रेण त्रिगुणसाधर्म्यमित्यभिप्रायेण तथैवेत्युक्तं ; रजस्तमस्समानाधिकरणसत्वस्यापि * 'तत्र सत्वात् । 'निर्मलत्वात्मकाशक' इत्यादि समानमिति वा । ज्ञातुर्ज्ञेयावभासो मतिः- अहमिदं जानामीत्य हमर्थाश्रयतया * सिध्यन् सकर्मकः प्रकाशो मतिरित्यर्थः । तादृशावस्थयापि तद्विशिष्टं गृह्यते । द्रव्यलक्ष्म सामान्यतो विशेषतश्चेति शेषः ॥ ७ ॥ इति द्रव्यादीनां लक्षणानि. आनन्ददायिनी गतीनां' इत्यादौ उपासनार्थमैौपाधिकाणुत्वादिकमुक्तमिति भावः । अहमर्थाश्रयतया इति–सकर्मकः प्रकाशो मतिरिति लक्षणं । तदर्थस्तु - स्वव्यतिरिक्तप्रकाशनियततत्कत्वं । नचात्मादौ स्वव्यतिरिक्तप्रत्यक्तादिप्रकाशकत्वादतिव्याप्तिः ; आत्मवदेव तस्यापि स्वेनैव प्रकाशात् । अत एव शतदूषण्यां तेषां धर्माणां ज्ञानदृष्टान्तेन स्वप्रकाशतोक्तिः॥७॥ इति द्रव्यादीनां लक्षणानि. भावप्रकाशः * 1 तत्र - 1 - त्रिगुणे* 2 सिध्यन्निति - एतेन मूले ज्ञातुरिति न लक्ष - णान्तः पाति; किंतु धर्मिव्यतिरिक्तधर्मभूतज्ञानसद्भावे प्रमाणसद्भावबोधनार्थम् । लक्षणं तु स्वभिन्नविषयसंयुक्तत्वमेवेति द्योत्यते ॥
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy