________________
सरः]
द्रव्यादिविभाग:
17
तत्वमुक्ताकलापः माहुः*' द्रव्यं वेधा विभक्तं जडमजडमिति प्राच्य
सर्वार्थसिद्धिः नीलपीतादिवत् कोट्यन्तरावकाशः। * द्रव्यत्वात्यन्ताभाववत्त्वरूपेण तदन्यत्वस्य विवक्षितत्वात् । द्रव्यलक्षणं वक्ष्यति । जडमिह स्वगोचरज्ञानत एव प्रकाशमानं ।
आनन्ददायिनी ननु द्रव्यान्यत्वं द्रव्यस्याप्यस्ति घटस्य पटादन्यत्वात् । तथाच तदन्यरूपेण विभागे नीलपीतादिवत् कोट्यन्तरमस्त्येवेत्यत आह-द्रव्यत्वात्यन्ताभाववत्त्वरूपेणेति । स्वगोचरं स्वभिन्नमेव ; भेदनिबन्धनत्वाद्विषयविषयिभावस्येति भावः ॥ ६॥
इति द्रव्याद्रव्यविभागः.
भावप्रकाशः *' द्रव्यं द्वेधेति-अथवा द्रव्यं द्विविधं आत्मानात्मभेदात् । त्रेधा वा भोक्तभोग्यनियन्तृश्रुत्यनुसारात् । षोढा वा-त्रिगुणकालजविश्वरशुद्धसत्वमतिभेदात् । एकं वा इतरविशिष्टं प्राधान्यतः परं ब्रह्म ; मुमुक्षुभिः ' प्रकर्षण मेयत्वश्रुतेः इति न्यायपरिशुद्धिः । अशेषचिदचित्प्रकारं ब्रह्मैकमेव तत्वं । तदन्तर्गतं च सर्व द्रव्याद्रव्यात्मना विभक्तं इति न्यायसिद्धाञ्जनम् । ___ * द्रव्यत्वात्यन्ताभाववत्त्वरूपेणेति-एतेन प्रतियोगिमत्ताविरोधित्वं सूचितम् । 'वस्त्वन्तरगतासाधारणविरोधिधर्म एव समानाधिकरणब्यधिकरणनिषेधभेदेनान्योन्याभावोऽत्यन्ताभावश्च' इति तात्पर्यचन्द्रिकासूक्तिरत्रानुसन्धेया ॥
SARVATHA.