SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसर्वार्थासद्धिसहिततत्वमुक्ताकलापे जडद्रव्य तत्वमुक्ताकलापः नानासिद्धान्तनीतिश्रमविमलधियोऽनन्तसूरेस्तनूजो वैश्वामित्रस्य पौत्रो विततमखविधेः पुण्डरीकाक्षसूरेः । श्रुत्वा रामानुजार्यात्सदसदपि ततस्तत्वमुक्ताकलापं व्यातानीद्वेङ्कटेशो वरदगुरुकृपालम्भितोहामभूमा ॥२॥ सर्वार्थसिद्धिः यथास्थानमूह्यम् ॥१॥ चिकीर्षितस्य श्रद्धेयत्वाय वक्तृसंप्रदायवैलक्षण्यं दर्शयतिनानेति । सत्-प्रामाणिकं मुमुक्षुभिरुपादेयं च तदन्यत् असत् । सतस्सत्त्वेन असतश्चासत्त्वेन श्रवणमिहेष्टम् । ततःश्रवणादेव हेतोः॥ आनन्ददायिनी यथास्थानमिति-अविरलतुलसीत्यादौ ॥ १॥ ननु प्रारिप्सितं विहाय नानासिद्धान्तेत्यादिना स्वमहिमवर्णनमनुचितमित्यत्राह-चिकीर्षितस्येति । सदसतोर्वैपरीत्येन श्रवणे श्रद्धेयत्वं न स्यादित्यत्राह–सत इति। व्यातानीदिति—आशंसायाम् ; कर्तुमाशंसत इत्यर्थः । सङ्कल्पमात्रेण ग्रन्थस्य सिद्धत्वं मत्वा भूतनिर्देशः ॥ २ ॥ भावप्रकाशः न्यायपरिशुद्धौ वक्ष्यते । इह केचन दार्शनिकाः बन्धमोक्षव्यवस्थादिसौकर्यमभिसंदधाना अहं प्रत्ययविषयं सगुणमात्मतत्वमाचक्षते । अपरे पुनर्दार्शनिकाः कूटस्थनित्यं परिणामिनित्यमिति द्वैविध्यं परिभाष
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy