________________
634
सव्याख्यसवार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः रेके तदा तु । ये तत्रोपाधयस्स्युस्त इह परिणति
___ सर्वार्थसिद्धिः क्रियासंततिवत्काले परिणामपरम्परा । किं न स्यात्स्वप्रकायैः परत्वादिप्रसाधिका ? ॥ एकाश्रयक्रियासंख्या काल इत्याप्तभाषितम् ।
कालोपाधिविशेषाणां सर्वेषामुपलक्षणम् ॥ अत्र परिणतिपक्षमन्द्य तत्राप्युपाधिव्याप्तिमाह-तदा विति
आनन्ददायिनी क्रियासंततिवदिति-यथा क्रियाप्रकर्षः कालनिष्ठः परत्वादिहेतुः तथा विभुत्वेऽपि कालस्य तन्निष्ठः परिणामपरम्पराप्रकर्षः परत्वादिहेतुरस्तु ! तथाच परत्वादेरन्यथाऽप्युपपत्तेः न तदर्थमणुत्वं कल्प्यम् । यद्वा कालसम्बन्धप्रकर्षों न परत्वं तन्नयूनता वा अपरत्वम् ; अपि तु परिणामपरम्पराप्रकर्षावच्छिन्नकालयोगः परत्वं तन्नयूनतावच्छिन्नतद्योऽगोऽपरत्वम् । योगश्च न संयोगः ; अपि तु आधराधेयभा(व इति)वादिरूपसम्बन्धविशेष इति न तदर्थ कालस्याणुत्वं कल्प्यमिति भावः । नन्वणुत्वविभुत्वयोरन्यतरनिर्णयः कथम् ? इति चेत् ; लाघवेनैकत्वनिर्णयेन ; अन्यथा समस्त देशवर्तिनां कालयोगे कल्प्यमाने अनन्तकालकल्पनाप्रसङ्गेन गौरवप्रसङ्गात् । ननु--- . एकाश्रयक्रियासङ्ख्या कालस्तस्य तु मानतः । इति ज्योतिश्शास्त्रे परिस्पन्दसंततेरेव कालत्वाभिधानात् तद्विरुद्धोक्तिविरुद्धेत्यत आह--एकाश्रयेति । एकः तपनादिः । तत्क्रियासङ्ख्या कालोपाधिरित्यर्थः । नन्वेवं परिणामाद्युपाध्यङ्गीकारविरोध इत्यत्राहसर्वेषामिति । ननु क्रियासंख्यैव कालोऽस्तु किमर्थं तदुपाधित्वमङ्गीकर