SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ सरः काले वर्तमानत्वसमर्थनं वर्तमानाकलापदूषणं च 627 सर्वार्थसिद्धिः ननु रूपादीनां वर्तमानकालसंबन्धो वर्तमानत्वम् ! नासौ कालस्य स्यात् ; मैवम्-त्वयैव कालस्य वर्तमानत्वेन रूपादिवर्तमानत्वनिर्वाहात् । वर्तमाननिषेधे च भवित्री विश्वनिकुतिः । न ह्यतीतं भविष्यद्वा प्रत्यक्षविषयोऽस्ति नः ॥ वर्तमानभ्रमश्चात्र तत एव न सिध्यति । पौर्वापर्यातिरिक्ता तु दुस्त्यजा वर्तमानता ॥ आनन्ददायिनी रूपादाविव काले वर्तमानत्वं युक्तमित्यर्थः । नन्वस्तु कालः स्थिरः क्षणिको वा ! तावतापि न रूपादिवद्वर्तमानता संभवति वर्तमानत्वं हि वर्तमानकालसंयोगित्वम् । न च वर्तमानकाले वर्तमानकालसंबन्धः ! स्वस्य स्वेन योगासंभवात् ; नापि कालान्तरेण अनवस्थाप्रसङ्गादिति शङ्कतेनन्विति । मैवमिति---रूपादीनां वर्तमानत्वं न कालसंबन्धमात्रे भाति अतीतादेरपि वर्तमानत्वप्रसङ्गात् । किं तु वर्तमानकालसंबन्धेन ; तथाच कालस्य वर्तमानत्वं सिद्धम् । न चानवस्थादिदोषः स्वपरनिर्वाहकत्वादिति भावः । ननु रूपादीनामपि वर्तमानता मा भूत् ! का नो हानिः ? इत्यत्राहवर्तमाननिषेधे इति । तत्र हेतुमाह--अतीतमिति । सर्वस्यापि वर्तमानतया प्रत्यक्षप्रतीतेरित्यर्थः । नन्वतीतादिकमेव प्रत्यक्षविषयः । तत्र वर्तमानतया भ्रान्तिरेवेत्यत्राह-वर्तमानभ्रमश्चेति । अप्रसिद्धवर्तमानत्वस्याभावादेवेत्यर्थ इत्यन्ये । केचित्तु-अतीतानागतयोरिन्द्रियसन्निकर्षाभावेन अप्रत्यक्षत्वादेव वर्तमानतया भ्रमश्च न संभवतीत्यर्थ इत्याहुः । ननु पौर्वापर्यमेव क्षणानां वर्तमानता ; तदुभयसमुदायस्य न समुदायापेक्षयाऽन्यत्वमित्यत्राह–पौर्वापर्येति । अत्र हेतुमाह 40*
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy