________________
सरः] कालस्यानुमेयत्वे दोषः - प्रत्यक्षासंभवशङ्का-वर्तमानधीसमर्थनं च 625
तत्वमुक्ताकलापः नो चेन्न क्वापि लोकव्यवहृतिविषयोऽव्यक्तवत्स्याद
नेहा ॥ ६८ ॥
सर्वार्थसिद्धिः
निष्टं प्रसञ्जयति-नोचेदिति । न हि परत्वापरत्वादिभिः कश्चित् कालोऽस्तीत्यनुमाय तद्विशिष्टतया पदार्थान् व्यवहरन्ति लौकिकाः ! अतःकालोप्यव्यक्तवत् शास्त्रकवेद्य इति तद्वदेव लोकव्यवहारविषयो न स्यादित्यर्थः । नन्वस्मदादिप्रत्यक्षमप्रत्यभिज्ञारूपं वर्तमानमात्रविषयमिति सर्वसंमतम् ; अतोऽस्य पूर्वापरकालविशिष्टविषयत्वमसंभवि; पूर्वापरव्यतिरिक्तं तु वर्तमानं न पश्यामः । अतः कथं कालप्रत्यक्षत्वम् ? इत्थम् ; किं भवान् वर्तमानाधयमेव नानुभवति ? सतीमपि वा निर्विषयाम् ? सविषयामपि वा कल्पितविषयाम् ? न प्रथमः ; इदं पश्यामीत्यादिव्यवहारोच्छेदप्रसङ्गात् । अत एव न द्वितीयः ; अस्वविषयधियां त्वनभ्युपगमाच्च ।
आनन्ददायिनी
प्रतिसन्धानाभावात्तद्व्याप्तिग्रहा संभवादित्यर्थः । बौद्धश्शङ्कते–नन्विति । अतोऽस्येति — पूर्वापरयोस्तदा सत्त्वाभावे सन्निकर्षाभावादिति भावः । नन्वस्तु वर्तमानस्य कालस्य प्रत्यक्षत्वमित्यभिप्रायेणाह --- पूर्वापरव्यतिरिक्तं त्विति । ग्रहणक्षणावधिकस्य पूर्वत्वादागामित्वाच्च ततोऽतिरिक्तस्य मध्यवर्तिनः कालस्याभावादित्यर्थः । वर्तमानधियमिति -- वर्तमानकालविशिष्टविषयामित्यर्थः । अत एवेति -- इदं पश्यामीति कालविशिष्टस्य धीविषयत्वानुभवविरोधादेवेत्यर्थः । दूषणान्तरमाह --- अस्व
40
SARVARTHA.