SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ सरः] कालस्येश्वरातिरेकबाधकम् 617 तत्वमुक्ताकलापः कालोऽस्मीति स्वगीता कथयति भगवान् काल सर्वार्थसिद्धिः अन्यथा शास्त्रैः स्वग्रन्थान्तरैः संप्रदायैश्च विरोधस्स्यादिति ॥६५ आकाशाद्यतिरिक्तकालसिद्धः ---- एवमपि कालस्य परमात्मव्यतिरिक्तत्वं न सिध्यति; रूपान्तरमिति स्वरूपविवक्षोपपत्तेः तत्स्वरूपैक्ये प्रमाणसद्भावाच्च इत्यभिप्रायेणाह-काल इति । स्वशब्दोऽत्र परमात्मविषयः । गीयते हि ‘कालोऽस्मि लोकक्षयकृत्प्रवृद्धः' इत्यादि ! तद्वत् 'अनादिर्भगवान् कालः' इति पराशरेणोक्तमपि ख्यापयतिकथयतीति । आप्तवर्यत्वमस्य 'देवतापारमार्थ्य च' इत्यादिमिस्सिद्धम् । नित्यविभुना परमात्मनैव त्रैकालिकसार्वत्रिक आनन्ददायिनी पृथगस्तित्वनास्तित्वादयो न वक्तव्या इति भाष्येण कालासत्त्वप्रतीतेरिति भावः । भाष्यस्य तात्पर्यवर्णनहेतुमाह-- अन्यथेति ॥ ६५ ॥ आकाशाद्यतिरिक्तकालासद्धिः आक्षेपसंगतिमाह-एवमपीति । रूपान्तरमिति यद्यप्यन्तरशब्दो भेदकोऽस्ति ; विष्णो रूपमित्यादिषष्ठीवन्नेतुं शक्यमिति भावः । एवं नयने हेतुमाह-तत्स्वरूपैक्ये इति । कालोऽस्मीत्यादिप्रमाणसद्धावादिति भावः । 'अनादिभेगवान्' इत्यत्र भगवान्--परं ब्रह्म । . सिद्धमिति--विष्णुपुराण एवेत्यर्थः । ननु परमात्मव्यतिरिक्तकालाभावे क्षणलवपरत्वादिव्यवहारः कथम् ? इत्यत्राह--नित्यविभुनेति ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy