________________
614
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः सूर्यावृत्त्याद्युपाधिव्यतिकरवशतः
. सर्वार्थसिद्धिः उदिष्टलक्षितेषु त्रिगुणानन्तरं कालः परीक्ष्यते। तत्र 'अपरस्मिन् परं युगपदयुगपचिरं क्षिप्रमिति काललिङ्गानि' इति परोक्तेरानुमानिकः काल इति मन्वानः सांख्यसौगतचार्वाकवञ्चितः कश्चित् कालं निढुते—सूर्येति । आदिशब्देन विभुद्रव्यान्तरं उपाधिबुद्धिविशेषाश्च संगृह्यन्ते । स्थविरयुवादिषु परत्वापरत्वनिर्वाहाय तत्कारणभूतबुद्धिविशेषविषयसूर्यपरिस्पन्दप्रकर्षनिकर्षादिघटकतया कालः कल्प्यते ; तत्र संप्रतिपन्नैराकाशादिभिरेव तत्तदुपाधिव्यतिकरितैः उपादिभिरेव वा बुद्धिसन्निकर्षघटितैः तादृशोपाधिबुद्धिभिरेव वाऽपेक्षितसिद्धौ किमिह तद
आनन्ददायिनी अवसरसंगतिमाह-उद्दिष्टेति । प्राच्यमव्यक्तकालावित्यत्रेत्यर्थः। उद्दिष्टलक्षितेति स्नातानुलिप्तवत् पूर्वकालेति समासः । परत्वापरत्वादिलिङ्गैः कालस्यानुमेयत्वं नैयायिकैरुक्तं दूषयितुमनुभाषते --- तत्रापरस्मिन्निति । सांख्यादीनां कालतत्वं न वस्त्वन्तरम् ; किं तु क्लप्तैरेवोपाधिभिस्तद्व्यवहार इति मतम् ; तदाह--सांख्येति । विभुद्रव्यान्तरमाकाशादि। उपाधिबुद्धिविशेषः-सूर्यावर्तादिगोचरबुद्धिविशेषः । क्लप्तैरन्यथासिद्धया न कालोऽतिरिक्तः कल्प्य इत्यत्राह-- स्थविरयुवादिष्विति । उपाधिभिरेवेति-- बुद्धिसन्निकर्षघटितैः बुद्धिविषयतया सन्निकृष्टैरुपाधिभिर्वा । उपाधिबुद्धिभिर्वेति--विशेषणविशेष्यभाव