SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ सरः] भूपतनवादनिरासः 601 सर्वार्थसिद्धिः आगमानुविधायिनां तु सर्वाधारेण ब्रह्मणा सोपधानं निरुपधानं च विधृतेति।अत एव पृथिव्याधारस्थिरतरकपरक्लप्तिः *नि आनन्ददायिनी नाभ्युपगम्यते ? इत्यत्राह--आगमानुविधायिनामिति । सोपधानं-- कूर्मदिग्गजनागराजादिशरीरद्वारकम् ; सङ्कल्पमात्रेण च धृतिरित्यर्थः । ये तु शैवाः सामुद्राम्भसि विन्यस्तकर्परस्था तु मेदिनी । संक्षोभं सा तु नायाति तरङ्गावर्तसंकुला || इत्याहुः; तन्मतमनुवदति-अत एवेत्यादिना । भावप्रकाशः इति । 1*सोपधानमिति--आदिशेषकमठादितात्पर्येण कटाहबहिरावरणतात्पर्येण च । *निरुपधानमिति । 'वासुदेवः परं ब्रह्म' इत्यारभ्य संकर्षणानिरुद्धादिसृष्टिमभिधाय बिभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकाम् । मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति ॥ इति सूर्यसिद्धान्ते उपसंहृतम् । _* निरस्तेति—अयं पक्षो भास्करेणापि निरस्तः-- मूर्तो धर्ता चेद्धरित्रयास्ततोन्यः तस्याप्यन्योऽस्यैवमत्रानवस्था । अन्त्ये कल्प्या चेत् किमाये स्वशक्तिः किं नो भूमेः साष्टमूर्तेश्च मूर्तिः ॥
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy