________________
सरः]
भूभ्रमणपक्षेदूषणम्
591
591
.
सर्वार्थसिद्धिः च स्वदेशपश्चिमभाग एव तेषां निपातस्स्यात् उड्डीनाश्च पक्षिणो न कुलायमासीदेयुः। प्रत्यकुखं च गच्छतां दुःखेनापि न संनि
आनन्ददायिनी क्षेपः परभागे पातप्रसङ्गश्चेत्यर्थः । उड्डीनाश्चेति--तीव्रतरं भ्रमणेन प्रतिक्षणं कुलायादिपुरो धावन्ने(नि)वानुधावता दूरस्थ एव स्यादित्यर्थः । प्रत्यङ्मुखं पततामिति-यत्र पक्षी तत्र कुलायादेस्सन्निध्यसम्भवादिति भावः । प्राङ्मुखमिति--उद्देश्यदेशस्य पूर्वन्यायेन दवीयस्त्वादिति
भावप्रकाशः * निपातस्स्यादिति । अयमर्थःइषवोऽभिनभस्समुज्झिताः निपतन्तस्स्युरपांपतेर्दिशि ।
(धीवृ. तं मिथ्या ४२) इत्यभिहितो लल्लाचार्येण । * उड्डीनाश्चेति
यदि च भ्रमति क्षमा तदा स्वकुलायं कथमानुयुः खगाः ? इति तत्पूर्वार्धेन तेनैवोक्तोऽयमर्थः ।
यद्येवं श्येनाद्याः न खात्पुनः स्वनिलयमुपेयुः । इति 'भ्रमति भ्रमस्थितेव' इत्यादिश्लोकोत्तरार्धेनोक्तो वराहमिहिराचायेणापि (पं. सि. १६-५)।
यद्येवमम्बरचरा विहगाः स्वनीड
मासादयन्ति न खलु भ्रमणे धरित्र्याः । इति श्रीपतिनापि (सिद्धान्तशेखरे) ।
किञ्चाम्बुदा अपि न भूरिपयोमुचस्स्युः देशस्य पूर्वगमनेन चिराय हन्त ।