________________
सर: ]
आर्यभटस्य भूभ्रमणपक्षतात्पर्याभावः
589
भावप्रकाशः
वृत्तः इति भुवः प्रसक्तिर्वर्तते । तत्र भूः तिष्ठति चलति वेति संदेहे युगरविभगणा इति श्लोकार्थानुसन्धानेन भुवश्चलनस्यैव प्रतीतिः न तु स्थिरतायाः । चलनप्रतीतिमेव भ्रान्तिरूपामुपपादयितुं अनुलोमगतिनस्थ इत्यादिकारिका प्रवृत्ता । अनन्तरं च सुस्थिरस्यैव भपञ्जरस्य चलनज्ञानं किं न स्यात् ? इति शङ्कानिवृत्त्यर्थं ' भचक्रं ध्रुवयोर्बद्धम् ' ' मध्ये समन्तादण्डस्य' इतेि पूर्वोदाहृत सूर्यसिद्धान्त श्लोकद्वयानुरोधेन भूगोलस्य स्थितेः ; भचक्रस्य प्रवहानिलेन भ्रमणस्यउपरिष्टाद्भगोलोऽयं व्यक्षे पश्चान्मुखस्सदा ।
(सू. सि. भूगोळाध्याये ५५ ) इति सूर्यसिद्धान्तानुरोधेन लङ्कासमपश्चिमगत्वस्य च निर्णयेन तत्र भूगोलस्थिते: पूर्वश्लोकेन भपञ्जरस्थितेरुत्तरश्लोकेन स्वरूपविशेषनिर्णय इति सुस्पष्टं प्रतीयते । अतोऽत्र सुस्थिरस्य भपञ्जरस्य चलत्वेन ज्ञानं मिथ्येत्यार्यभटस्याशयवर्णनमयुक्तम् ; 'मन्दामरेड्यभूपुत्र' इत्यादि सूर्यसि द्धान्तानुसारेण भानामधरशनैश्चरेत्यादिना अत्र च ग्रहकक्ष्यावर्णनं भुवः स्थिरत्वं द्रढयति भ्रमणं चापाकरोतीत्युपरिष्टान्निरूपयिष्यते । लल्लाचार्येणवरवशेन कुशेशयजन्मनो न चलतीति वदन्ति मनीषिणः । इति भुवोऽचलत्वोक्तेः ; भुवः प्राग्गत्यङ्गीकारे दोषाणामभिधानाच्च । लल्लाचार्यश्च आर्यभटशिष्य इति ' तथाच तच्छिष्यो लल्लाचार्यः ' इति कालक्रियापादस्थ १० मश्लोकव्याख्यानावसरे परमेश्वरेण भटदीपिकायां साधितम् । वराहमिहिरेणापि पञ्चसिद्धान्तिकायांपञ्चमहाभूतमयः तारागणपञ्जरे महीगोल: । खेऽयस्कान्तान्तरस्थो लोह इवावस्थितो वृत्तः ॥
इति भुवः स्थिरत्वमभिधाय गतिमत्त्व दोषाणामभिधानाच्च वराहमिहिरस्यापि भूस्थैर्यमेव प्राचीन सिद्धान्तानुसारेणाभिमतम् । अतोऽत्र सूर्य