SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ 578 संव्याख्यसवार्थसद्धिसहिततत्वमुक्ता कला [ जडद्रव्य तत्वमुक्ताकलापः ध्वान्तं तेजश्च नासीदिति मुनिभिरुपाख्यायि संवर्तवार्ताभावाभावो निषेद्धं तदुभयविधिवद्वद्याहतत्वादशक्यम् । अन्तर्यन्तुश्च तेजस्सहपठिततमो सर्वार्थसिद्धिः आलोकाभावस्यागमवैघट्यमाह – ध्वान्तमिति । अर्थोपादानमेतत् शब्दस्तु 'नासीत्तमो ज्योतिरभून चान्यत् ' इति । कथमस्य प्रकृतविरोधित्वम् ? इत्यत्राह - भावाभावाविति । न हि कस्यचिदेकदैकत्र भावाभावविधिश्शक्यते ! तद्वदुभय आनन्ददायिनी प्रसङ्गसंगतिमा(पूर्वसंगत्याऽऽ)ह - आलोकाभावस्येति । मूलस्यायमर्थः - मुनिभिः - पौराणिकैः 'नासीत्तमो ज्योतिरभून्न चान्यत्' इत्यत्र तमस्तेजश्च नासीदिति। संवर्तवार्ता - प्रलयवचनम् । एकस्मिन् काले भावाभावविधिवन्निषेधोऽप्यशक्यः । शक्यमिति विभक्तिप्रतिरूपकमव्ययामिति न विशेष्यनिघ्नतेति केचित् । अपरे तु - - ' निषेद्धुं व्याहतत्वादशक्यम्' इति भिन्नं वाक्यम् । तत्किमित्यपेक्षायां भावाभावावित्यपरं वाक्यम् । अत एव महाभाष्ये पस्पशायां श्वमांसादिभिरपि क्षुदुपहन्तुं शक्यमित्यत्र `कैयटः–उपहन्तुं शक्यं इत्येकं वाक्यम् । तत्किमित्यपेक्षायां क्षुदित्यपरम् ; तथा च सामान्ये नपुंसकत्वमेकवचनत्वं चेति वदन्ति । वस्तुतस्तु (अन्येतु)—भावाभावाविति तुमुन्नन्तकर्म । कृदन्तत्वेऽप्यव्ययत्वान्न षष्ठी । तथा च तुमुन्नन्तार्थ एव प्रधानमिति तत्रैव विधेयाशक्यत्वान्वये भावाभावनिषेधनमशक्यमिति (वाक्यार्थः) पर्यवस्यति । तुमुनोऽव्ययत्वे
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy