SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ 572 सव्याख्यसवासिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः अद्रव्यत्वादिपक्षाणामत्रासंभवासिद्धये । आद्यमेव तमो ध्वान्तमिति केचिदुपाचरन् । किञ्च तेजस इव तमसोऽपि शरीरत्वाम्नानादालोकमध्ये तमस्स्सृष्टिवचनादेकस्मिन् काले तमस्तेजःप्रलयपाठाच्चास्य द्रव्य आनन्ददायिनी नीलभानरूपस्मृतिप्रमोष इति प्राभाकराः । द्रव्यान्तरमिति कौमारिलाः । प्रधानतत्वमेव तम इति तत्वविदः' इत्युपक्रम्य प्राथमिकमतद्वयमथनपूर्वकम् ; अत्र तत्वविदः प्राहुः स्थूलसूक्ष्मात्मना स्थिता । दैवी गुणमयी माया बाह्यन्तरतमो(मयी)मता ॥ इत्युक्तम् ; तत्कथं पार्थिवत्वं भवद्भिरुच्यते ? इत्यत्राह–अद्रव्यत्वादिपक्षाणामिति । आदिशब्देनालोकाभाव(पक्ष)परिग्रहः । अद्रव्यत्वादिनिरासाय प्राकृतत्वात् प्रकृतित्वोक्तिरित्यर्थः । तत्र हेतुमाह-किंच तेजस इति । 'यस्य तमश्शरीरम्' इति शरीरत्वोक्तेः 'तमस्ससर्ज दिवसे' इत्यादिना भारतादौ आलोकदशायामेव तमस्सृष्टेश्श्रवणात् तेजसा सह तमसोऽपि प्रलयवचनात्त(चने त)दभावत्वाभावावगमाच्च द्रव्यत्वं प्राकृतत्वं च सिद्धमित्यर्थः । ननु ' नासदासीन्नो सदासीत्तदानीम् ' तम आसीत्तमसा गूढमग्रे प्रकेतम् ' ' यदा तमस्तन्न दिवा न रात्रिः' 'तमः परे देवे' आसीदिदं तमोभूतम् ' इति श्रुतिस्मृतिवचनानि प्रकृतेस्तमस्त्वं वदन्तीति चेत् ; (न) प्रकृतेः रूपवत्त्वाभावेन अस्मदादिचाक्षुषतमस्त्वासंभवात्तस्याः प्रकृतेरतीन्द्रियत्वोक्तेः (क्तश्च) तत्र तमश्शब्द उपचाराच्छक्तयन्तराद्वेति दृश्यमानतमसः प्राकृतत्वमेवेति भावः । ननु तमसो द्रव्यत्वे तत्वान्तरत्वापत्तिः; क्लप्तेष्वन्तर्भावे महदादिषु वा(दिष्वेवा)न्तर्भा
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy