________________
5.70
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः वत्तत्र चाक्ष्णोः नालोकोऽर्थ्यः ससिद्धाञ्जननयन
सर्वार्थसिद्धिः दृष्टान्तः । यन्नीलं तदालोकसहकृतचक्षुह्यम् । तमश्च न तथा । ततश्चाक्षुषप्रत्ययाभावे नीलत्वाभिमान इत्यत्राह-तत्रचेति । आलोकोपलब्धावालोकान्तरं न सहकारि; तथा स्यात् । विषयस्य सतस्तत्र सहकारित्वमिति चेत् ; अथापि वस्तुभेदे वैरूप्यं सिद्धम् । एवं ध्वान्तेऽप्यालोकनरपेक्ष्यं स्यात् । अलचनीयनिदर्शनान्तरमाह–ससिद्धाञ्जनेति । अञ्जनविशेषसहकृतं हि चक्षुर
आनन्ददायिनी स्पर्श तम इति अस्पर्शत्वासिद्धोरित्यार्थः । चाक्षुषेति-यद्यपि तत्प्रतीतिरपि चाक्षुषीति न चाक्षुषप्रतीतिसामान्याभावस्संभवति; विशेषाभावश्चेत् सर्वदा तमः प्रतीतिप्रसङ्गः; तथाप्यालोकाभाव आरोपसहकारीत तमश्चाक्षुषप्रत्यया(चाक्षुषप्रतीत्यतिरिक्तचाक्षुषप्रत्यया)भावे तथा(तदा)रोप इति भाव(इतिकेचित् ) इत्याहुः । वस्तुभेद इति—सर्वत्र विषयातिरिक्तालोकसापेक्षत्वनियमेऽपि तेजसि वैरूप्यमङ्गीक्रियते; त(द्व)त्पार्थिवत्वेऽपि वैरूप्यमि(प्यमस्त्वि)त्यर्थः । यद्वा-(केचित्तु-)वस्तुभेदे तमसः पार्थिवविशेषत्वानङ्गीकारेऽपि नीलरूपस्यालोकासहकृतचक्षुर्गाह्यत्वरूपं वैरूप्यं सिद्धमिति लाघवात् पृथिव्यन्तर्भावोऽस्त्वित्यर्थः(इत्याहुः)। यदुक्तं चाक्षुषप्रत्ययाभावेऽपि नीलत्वा(नीलिमास्तित्वा)भिमान इति ; तदयुक्तम् ; ज्ञानस्य तदभावस्य वा चाक्षुषत्वायोगात् । बाधकामावे(च) आरोपकल्पनायोगाच्च । आलोकासहकृतचक्षुह्यत्वं च तमसो न पार्थिवत्वविरोधीत्याह–अञ्जनविशेषसहकृतमिति । नीलाद्यध्यासहेतु